SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २१० 'श्री हीरसुन्दर' महाकाव्यम् (१) काव्यकर्ता शुक्रेण च । (२) पण्डितेन सोमपुत्रेण च । (३) समीपस्थितेन । (४) भूमौ जन्म यस्य तथा मङ्गलेन च युक्तः । गगने सर्वेषां स्थितत्वात् । (५) विजयदानसूरे बृहस्पतेश्च । (६) चन्द्र इव ॥७०॥ हील० यथा चन्द्रो बृहस्पतिगृहे समायाति तथा गुरुसमीपमागतः । शुक्रेण, बुधेन, मङ्गलेन ॥७०।। हीसुं० स चुचुम्ब पदाम्बुजं गुरो रमिनोनूय नवैः स्तवैस्ततः । मतिदर्पणिकानुबिम्बितश्रुतिभावस्स( : श)क'डालसूनुवत् ॥७१॥ (१) स्तुत्वा । (२) प्रज्ञादर्शिकायां प्रतिबिंबिता: शास्त्राणां भावा रहस्यानि यस्य । “मन्मतौ विमलदर्पणिकाया''मिति नैषधे । (३) स्थूलभद्र इव ॥७१॥ हील० . 2अग्रे वृत्तं सुगमम ॥७१-७८॥ हीसु० अथ नारदनाम्नि पत्तने तुरग७व्योमरसेन्दुश्वत्सरे १६०७ । वृषभाङ्कजिनालये गिरेरिव शंभोर्विभवैः सहोदरे ॥७२॥ पदमा प्यत पण्डिताह्वयं गणिना तेन यति क्षितीशितुः । ३अभिभूय 'बुधं "बुधश्रिया पदमस्यैव कि मात्तमात्मना ॥७३॥ युग्मम् ॥ (१) पत्तनशब्दः सामान्येन नगरवाची न मुख्यवृत्त्या पत्तनस्य । नडुलाई नगरे । (२) विक्रमार्कात्सप्ताधिकषोडशशतवर्षे १६०७ ।(३) ऋषभदेवप्रासादे । (४) कैलाशस्य ।।७२॥ (१) प्राप्तम् । (२) प्रज्ञांशाभिधानम् । (३) जित्वा (४) सोमसुतम् । (५) पाण्डित्यलक्ष्या। (६) रोहिणीसुतस्येव । (७) गृहीतम् ॥७३॥ हीसुं० 4 "तपसः "सितपञ्चमीदिने कुलशैला८भ्र०रसात्मश्वत्सरे१६०८ । अपि नारदपर्यनुत्तरिव रेसख्यां विभवैहरे: 'पुरः ॥७४॥ 'सुहदेव समेत्य शोभिते 'वरकाणाख्यजिनावनीन्दुना । जलजध्वजसार्वमन्दिरे पदमस्याजनि 'वाचकाह्वयम ॥ ७५॥ युग्मम् ॥ (१) असाधारणसम्पत्त्या । (२) अमरावत्या । (३) वयस्यामिव । (४) माघमासस्य । (५) शुक्लपञ्चम्या । (६) विक्रमनृपादष्टाधिकषोडशशतवर्षे १६०८॥७४॥ (१) मित्रेण । (२) वरकाणकनामपार्श्वनाथेन । (३) नेमिनाथप्रासादे । (४) उपाध्यायपदम् ॥७५॥ हीसुं० 'विबुधावथ राजपूर्वको विमलो धर्मयुतश्च सागरः । ___ सचिवाविव वाचकेश्वरौ कृतवान्सूरिमहीपुरन्दरः ॥७६॥ 1. कटाल. हीमु० । 2. 'अने' इति ७१तमश्लोकादारभ्य ७८तमश्लोकपर्यन्तं ज्ञेयम् । 3. हीलप्रतौ हीमु० चैषा द्वितीया पक्तिः । 4. ०णाख्यफणीन्दकेतुना हीमु० हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy