________________
२०९
षष्ठः सर्गः ॥ हील० अयं स्वगुरुसमीपे गमनमकरोत् । यथा सार्थपतिः पितुः समीपे गच्छति ॥६५॥ हीसुं० अथ 'दक्षिणदेशतो महाव्रतभृन्मूछितमच्छय( त्स्य )लाञ्छनः ।
मलयानिलवत्स चेलिवान्यशसा सौरभयन्भुवस्तलम् ॥६६॥ (१) दक्षिणदेशात् । (२) मूर्छा निधनावस्थ्यं प्रापितः वाद्धितोत्साहश्च स्मरो येन । महाव्रतधारी,
ईश्वरश्च । सोऽपि हतस्मरः (३) वासयन् ॥६६॥ हील० अथ० । मूर्छा नीतो मकरध्वजो येन, तादृशः स प्रचलति स्म । यथा मलयवायुः प्रचलति ॥६६।। हीसुं० मरुतामिव पद्धतीः पुरीवृष कन्यामिथुनाजराजिनीः ।
मकरान्वितमीनशालिनी: सरितः सा ब्जबलाहकाः पुनः ॥६७॥ वसतीरिव वल्गु विष्टराः सकुरङ्गाः शशिमण्डलीरिव । स्फुरदप्सरसो यथा दिवष्य( : पदवीर्लचितवान्मुनीश्वरः ॥६८॥ युग्मम् ॥2 (१) आकाशमार्गाः । (२) वृषभाः कुमारिका: तरुणीतरुणयुगलानि मेषास्तैः राजन्ते इत्येवंशीला: गगने तु मेषवृषमिथुनकन्याराशयः । (३) जलयादांसि मत्स्यास्तैः शोभमानाः। पक्षे-मकरमीनौ राशी। (४) कमलानि बकास्तैर्युक्ता नद्यः । गगनं चन्द्रमेयैः सहितम् ॥६७॥ (१) आसनं वृक्षश्च । (२) अप्प्रधानानि सरांसि यत्र ।(३) इतस्ततो भ्रमन्त्य उर्वशीमुखाप्सरसो
यत्र (३) मार्गान् ॥१८॥ हील० मरु०। स मुनिः पुरीरुल्लचितवान् । उत्प्रेक्ष्यते । देववीथी: । कैः ?। वृषभैः कन्याभिः
स्त्रीपुंयुगलैरजैश्छागैः शालिनीः । पक्षे-चतुर्भिः राशिभिर्युक्ताः । पुनर्देववीथीरीव नदीरुल्लचितवान् । किंभूताः ? मकरैर्युक्तमत्स्ययुक्ताः । पुनः किंभूताः ?। कमलैर्बकैर्युक्ताः । पक्षे राशिद्वयकलिताः । अब्जेव चन्द्रेण मेधैर्वा सहिताः ॥६७॥ यथा गृहं मनोज्ञासनं भवति तद्वन्मनोज्ञवृक्षाः पुनश्चन्द्र इव मृगयुक्ताः । पुनः स्फुरन्ति अप्प्रधानानि
सरांसि यासु तादृशाः पदवीर्मार्गानुल्लङ्घयति स्म । यथाप्सरोयुक्ता दिवः ॥६८।। हीसुं० मरुदेशमभूषयत्क्रमादथ कुराङ्गजसाधुसिन्धुरः ।
अतुलैरिव धन्वजन्मनां सुकृतैः "स्व:शिखरी समीयिवान् ॥६९॥ (१) हीरहर्षगणिः । (२) असाधारणैः । (३) मरुनराणाम् । (४) कल्पद्रुः मेरुर्वा
कल्पद्रुयुक्तः ॥६९॥ हील० धन्वजन्मनां मरुसम्बन्धिनाम् ॥६९।। हीसुं० 'कविना च 'बुधेन सन्निधिस्थितिभाजा क्षितिजन्मनान्वितः ।
सविधे स गुरोरुपेयिवान्विधुवद्वागमृतं ततः किरन् ॥७०॥ 1. ०वत्प्रचे० हीमु० । 2. इति मार्गवर्णनम् हील० । 3. ०जन्मि० हीमु० । 4. ०ना पुनः । हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org