________________
२०८
'श्री हीरसुन्दर' महाकाव्यम् हीसुं० भवति स्म 'विचक्षणः क्षणादथ सामुद्रिकवत्स 'लक्षणे ।
अपि काव्यविशेषवित्तया विजित: 'काव्य 'इवाभजन्नभः ॥६१॥ (१) चतुरः । (२) व्याकरणशास्त्रे करचरणाद्याकारविशेषे च । (३) काव्यानां रघु
नैषधादीनां रहस्यज्ञातृत्वेन । (४) शुक्रः ॥६१॥ हील० यथा सामुद्रिको लक्षणे निपुणस्तद्वल्लक्षणात्मकशास्त्रे विचक्षणः सोऽभवत् । पुनष्प(: प)
ञ्चकाव्यज्ञानाज्जितः काव्यः - शुक्रो नभसि गतः ॥६१।। हीसुं० पदमस्य हदि व्यतन्तनीदनिशं ज्योतिरिवाभ्रवर्त्मनि ।
नरिनृत्यति नर्तकीव धीरपि तांगमरङ्गवेश्मनि ॥६२॥
(१) ज्योतिःशास्त्रम् । तारकादिव (२) बुद्धिः । (३) तर्कशास्त्ररूपनर्त्तनगृहे ॥६२॥ हील० अस्य चित्ते ज्योति:शास्त्रं रेमे । यथाकाशे ज्योतिर्नक्षत्रं रमते । पुनरस्य मतिस्तर्कशास्त्रे अतिशयेन
नृत्यं कुरुते, यथा नर्तकी रङ्गगृहे नृत्यं करोति ॥६२।। हीसुं० गणितं ह्यनुरागिरागवन्न विसस्मार 'मानसान्निजात् ।
प्रसृतास्य मतिर्जिनागमेऽम्बुधिकाञ्च्यामिव 'चक्रिणश्चमूः ॥ ६३॥ (१) स्वस्मिन्ननुरक्तजनस्नेह इव । (२) चित्तात् । (३) जैनशास्त्रम् । (४) भूमौ ।(५)
चक्रवर्तिसेना ॥६३॥ हील० यथा स्नेहिस्नेहो न विस्मरति तथा गणितं शास्त्रं न विस्मरति स्म । यथा चक्रिसेना क्षोणीमण्डले
आसमुद्रान्तं प्रसरति, तद्वदस्य मतिः प्रवचने प्रसृता ॥६३॥ हीसुं० 'बहुना किमु तन्मनस्विनोऽखिलषड्दर्शनशास्त्रसन्ततिः ।
गलकन्दलमालिलिङ्ग य यु (धु )ववत्खञ्जनमञ्जुलेक्षणा ॥६४।। (१) किं बहूक्तेन । (२) प्रकृष्टमनसः । (३) जैन १ बोद्ध २ नैयायिक ३ साङ्ख्य ४ वैशेषिक ५ नास्तिक ६ इत्याख्यानि षड्दर्शनानि, तेषामागममालिका । (४) कण्ठपीठम् ।
(५) यद्-यस्मात्कारणात् । (६) तरुणस्येव । (७) कण्ठकामिनी ॥६४॥ हील० बहूक्तेन किम् ?। षड्दर्शनशास्त्रश्रेणीर्गले स्थिता । यथा प्रौढा युवानमालिङ्गति ॥*६४|| हीसुं० 'सविधे 'स्वगुरो: सगौरवं गमना'योत्सुकमाशयं ततः ।
अयमजितशास्त्रवैभवोऽधित सार्थेश इव व्रतीशीता ॥६५॥ (१) पार्छ । (२) विजयदानसूरेः । (३) सबहुमानम् । (४) गन्तुम् । (५) उत्कण्ठितम् ।
(६) चित्तम् । (७) उपाजितशैवशास्त्रसम्पत्तिः । (८) सार्थनाथ इव ॥६५॥ 1. इवाभवन्नराभः इति हीमु० दृश्यते । स चाशुद्धः । 2. मालिका० हीमु० । 3. इति हीरहर्षगणे: स्वसमयपरसमयशास्त्राणां परिज्ञानम् हील० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org