SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः ॥ २११ (१) पण्डितौ । (२) राजविमल-धर्मसागरनामानौ ।(३) प्रधानाविव । (४) विजयदानसूरिः ॥७६॥ हीसुं० श्रियमाश्रयते स्म वाचकत्रितयी सा श्रमणावनीशितुः । प्रतिबोधयितुं 'जगत्त्रयीमिव मूर्तित्रितयी समुद्यता ॥७७॥ (१) विजयदानसूरेः । (२) त्रैलोक्यम् । (३) प्रतिबोधयितुम् । (४) मूर्तित्रयीव । (५) प्रकटीभूता ॥७७॥ हीसुं० विहरन्सह 'वाचकेन्दुना शिवपूर्यां समवासरद्गुरुः । "वसुभूतिसुतेन सङ्गतौ ५भगवानराजगृहे यथान्तिमः ॥७८॥ (१) हीरहर्षवर्षो )पाध्यायेन सह । (२) श्रीरोहीनगर्याम् । (३) समवसृतः । (४) गौतमेन । (५) महावीरः ॥ हीसुं० 'त्रिदिवोज्जयिनी पूरी तदाजनि दूदाह्वनृपो विभूषयन् । 'सुखयन्जनतां वदान्यतां कलयन्विक्रमभानुमानिव ॥७९॥ (१) स्वर्ग उत्प्राबल्येन जयतीत्येवंशीलाम् । पक्षे त्रिदिवतुल्या अवन्तीनगरीम् । (२) सुखीकुर्वन् । (३) जनसमूहम् । (४) दानशीलताम् ॥७९॥ . हील० त्रिदि०। स्वर्गजयन्ती सीरोहीनगरी विभूषयन् दूदाराजाऽभूत । यथा स्वर्गतुल्यामुज्जयिनी विभूषयन् सुखदः दानी विक्रमो जातः ॥७९॥ हीसुं० 'सचिवः पुनरस्य भूभुजोऽजनि चा ङ्गाभिधसङ्घनायकः । जिनधर्मरतो निधि र्धियाम भयः श्रेणिकभूपतेरिव ॥८०॥ (१) प्रधानः । (२) दूदानृपस्य । (३) जातः । (४) 'चाङ्गो संघवी" इति नामा श्राद्धः। (५) बुद्धीनां निधानम् । (६) अभयकुमारः ॥८॥ हील० अस्य चाङ्गाह्वोऽमात्योऽजनि ॥८०॥ हीसुं० 'निरमापयदस्य पूर्वजो धरणो राणपुरे चतुर्मुखम् । . "वृषभध्वजतीर्थकृद्गृहं न लिनीगुल्ममि वागतं क्षितौ ॥८१॥ (१) कारितवान् । (२) धरणाख्यः । (३) राणपुरनाम्नि स्ववासनगरे । (४) चतुर्मुखं ऋषभदेवप्रासादम् । (५) नलिनीगुल्मनाम विमानम् । (६) स्वर्गाद् भूमावागतमिव ॥८१।। हील० निर० । चाङ्गाह्वस्य पूर्वजो धरणो नलिनीगुल्मसदृशं ऋषभचैत्यं अकारयत् ॥८१।। हीसुं० गणपुङ्गवमन्त्रमन्वहं विधिनाराद्धमना मुनीश्वरः । अथ "सुस्थितसूरिशक्रवत्प्रणिधानं विदधे स तत्पुरे ॥८२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy