________________
२०४
'श्री हीरसुन्दर' महाकाव्यम्
हीसुं० 'अदसीयविलासवत्यभूज्ज'समादेव्यभिधानधारिणी । विधिना 'प्रहितेव वर्णिका 'त्रिदिवस्त्रैणदिदृक्षुभूस्पृशाम् ॥४१॥
( १ ) देवसीपत्नी । ( २ ) जसमादेवीनाम्नी । (३) भूमौ प्रेषिता । ( ४ ) स्वर्गाङ्गा( ङ्गना )नां गणं द्रष्टुमिच्छूनां नराणाम ||४१ ॥
हील० अस्य जसमादेवी स्त्रीरभूत । उत्प्रेक्ष्यते । स्वर्गिवध्वालोकनरतानां जनानां धात्रा कनी प्रेषिता ॥४१॥ हीसुं० 'कमलान्मधुपानुषङ्गिनः सितकान्ते रुदयास्तदूषितात् ।
'कमला' ब्धिशयालुकेशवादति खिन्नेव तमेत्य भेजुषी ॥ ४२ ॥
( १ ) पद्मात् । ( २ ) मद्यपैर्भृङ्गैश्च सङ्गवतः । ( ३ ) उद्गमनास्ताभ्यां सदोषाच्चन्द्रात् । ( ४ ) लक्ष्मी: (५) समुद्रे शयनशीलात्कृष्णात् । (६) उद्विग्ना । (७) श्रिताः ॥ ४२ ॥ हील० मद्यपैरुद्धात्कजात् पुनरुदयास्तदूषिताच्चन्द्रात् पुनः समुद्रे सुप्तात्कृष्णदुद्विग्ना श्रीस्तं भेजे ॥४२॥ हीसुं० 'वृषभध्वजगोधिलोचनानलकीलाशलभं स्ववल्ल्भम् ।
'अवगत्य रतिष्प( : प ) रंजनुर्निभतोऽस्याः प्रतिपेदुषी किमु ॥ ४३ ॥
(२) ईश्वरललाटनयनवह्निज्वालायां पतङ्गम् । भस्मीभूतमित्यर्थः । (२) ज्ञात्वा । (३) अन्यजन्म । ( ४ ) प्रपन्ना ॥ ४३ ॥
हील० वृष० । शंभोर्ललाटनेत्राग्निज्वालायां पतङ्गं कामं ज्ञात्वा रतिरस्या मिषान्नवं जन्माददे ||४३|| हीसुं० 'अनया निजरूपसम्पदाऽभिभवं लभ्भितया श्रिया किमु ।
'जलधौ विमनायमानया 'दयितोपास्तिनिभाद' गम्यतः ॥ ४४॥
(१) जसमादेव्या । (२) स्वरूपश्रिया । ( ३ ) प्रापितया । ( ४ ) समुद्रे । (५) विरुद्धमनस्कीभवन्त्या । "चिरायतस्थे विमनायमानया" इति नैषधे । ( ६ ) भर्तुः समुद्रशायिनः कृष्णस्य सेवाकपटात् (७) गता ब्रूडिता ॥ ४४॥
हील०
अनया रूपेन (ण) जितया श्रिया उन्मनस्त्वेन कृष्णसेवानिभादगम्यत-गता । ब्रूडितेत्यर्थः ॥४४॥ हीसुं० 'युवसंमदकन्दलीघनैः कमलानन्दनकेलिशीलनैः ।
त्रिदशाविव दम्पती सुखं वसतस्तौ 'त्रिदिवोपमे पुरे ॥ ४५ ॥
( १ ) तरुणानामानन्दकन्देषु मेघसदृशैः । ( २ ) स्मरक्रीडासेवाभिः । ( ३ ) देवदेवाविव । 'पुमान्स्त्रिया' स्त्रीया सहोक्तौ पुमान्शिष्यते, न स्त्री । उदाहरणम् -ब्राह्मणी च ब्राह्मणश्चब्राह्मण इति प्रक्रियाकौमुद्याम् । तथाऽत्रापि त्रिदशी च त्रिदशश्च - त्रिदशौ । (४) जसमादेवीदेवसीनामानौ । (५) स्वर्गतुल्ये । ( ६ ) नगरे ॥ ४५ ॥
1. इति जसमादेवी हील
Jain Education International
10
For Private & Personal Use Only
www.jainelibrary.org