SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः ॥ २०३ अतिशयेन सोढुमशक्ये । (७) दावानलभ्रमेण व्याकुलाः । (८) वनवासिनः । (९) शत्रवः । (१०) महातडागान् (१२) अवगाहन्ते स्म ॥३६॥ हील० मह०। यस्य राज्ञः प्रतापानां व्यूहे वनेऽपि प्रकटीभूते सति दवबुद्ध्या व्याकलीभवन्तो वनस्थायिनो वैरिणः सरस्सु प्रविष्टाः ॥३६।। हीसुं० १अहिता अमुना पराहता वनवासा: “शबरा इवाभवन् । ५अबला इव वातवेपितादपि “पत्राद्विपिनेऽपि “बिभ्यिरे ॥३७॥ (१) वैरिणः । (२) निजामसाहिना । (३) अरण्यचारिणः । (४) भिल्ला इव । (५) स्त्रिय इव । (६) पवनकम्पितान् । (७) तरुपर्णात् । (८) भयमापुः ॥३७॥ हील० अहि० । अमुना शत्रवो परिभूताः सन्तो भिल्ला इव जाताः । वायुकम्पितात्पत्रादपि अबला नि:सत्वा इव स्त्रिय इव वनेऽपि पलायन्ते स्म ॥३७॥ हीसुं० अथ 'तत्पुरि 'देवसीत्यभूदभिधानेन वणिक्पुरन्दरः । विधिना स्य यशःप्रशस्तयोऽम्बरपट्टे लिखिता ६इवोडवः ॥३८॥ (१) तत्र देवगिरौ । (२) देवसीनामा वणिक्श्रेष्ठः । (३) विधात्रा । (४) देवसीव्यवहारिणः । (५) आकाशपट्टके । (६) तारका एव वर्णाः ॥३८॥ हील० तत्पुरि देवसीवणिगास्ते । धात्रा तारामिषात्कीर्तिवर्णा लिखिताः ॥३८॥ हीसुं० 'सुरयौवतजैत्रकान्तियधुवतीसङ्गमरङ्गिमानसः । वपुरस्य दधत्सु धाशनः किमु कोऽप्यत्र पुरेऽवतीर्णवान् ॥३९॥ (१) सुराङ्गनागणजयनशीला शोभा यासां तादृशीनां देवगिरिसुन्दरीणां सङ्गमे सरागमानसः । (२) देवसीशरीरम् । (३) दधानः । (४) देवः ॥३९॥ हील० सुर०। सुरीसमूहजैत्राणां देवगिरिस्त्रीणां सङ्गमे लग्नचितः । एतद्वपुर्धारी कोऽपि देवोऽवतारं गृहीतवान् ॥३९॥ हीसुं० 'कमनः 'कमनात्प्रसेदुषः सह "सारङ्गदृशोप'शीलितात् । भव साङ्ग इतीव "तन्निभाद्वरमाप्याजनि 'मूर्तिमानिह ॥४०॥ (१) स्मरः । (२) वेधसः । (३) प्रसभीभूतात् । (४) रत्या समम् । (५) सेवितात् ।(६) शरीरयुक्तः । (७) देवसीकपटेन । (८) विधातुर्वरं प्राप्य । (९) शरीरवान् ॥४०॥ होल० स्मरो रत्या समं सेवितादतः प्रसन्नात्कमनाद्विधातुः सकाशात्साङ्गो भवे'ति वरं प्राप्येभ्यनिभाच्छरीरी जातः ॥४०॥ 1. इति देवगिरिस्वामिनिजामसाहि: हील. 12. इति देवसीव्यवहारी हील० । Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy