SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २०२ श्री हीरसुन्दर' महाकाव्यम् हील० पञ्चमुखं ईश्वरं प्रति प्रहितानि आयुधानि । अतो निःशस्त्रः स्मरः दक्षिणस्त्रीदम्भाद्धेतीरायुधानि कृतवान् ॥*३१॥ हीसुं० 'स्वपदाभिककुम्भसम्भवं तपसः पातयितुं मरुद्वता । " इदमिन्दुमुखीमिषादिह प्रहिताः 'स्वर्गिमृगीदृशः किमु ॥ ३२ ॥ (१) निजपदस्य इन्द्रत्वस्याभिलाषिणमगस्तिम् । इदं शैवशास्त्रानुयायिवचो न जैनं परं कविसमयानुगतत्वादुच्यते । (२) तप: करणात् । ( ३ ) भ्रंशयितुम् । ( ४ ) इन्द्रेण । ( ५ ) देवगिरिवनिताकपटात् । ( ६ ) अप्सरसः ॥३२॥ अगस्ति तपात् (तपसः) पातयितुं दक्षिणस्त्रीमिषाद्देवरमा मुक्ताः ||३२|| हील० हीसुं० 'जलकेलिगलद्विलेपनीकृतगोशीर्षविलोचनाञ्जनैः । पुरि पद्मदृशः प्रकुर्व्वते गृहवापीर्विधु मण्डलीरिव ॥३३॥ (१) सलिलक्रीडायां सलिलसङ्गान्निपतत्हृदयेऽङ्गरागात्तचन्दनैस्तथा नेत्रकज्जलैश्च । (२) चन्द्रबिम्बानीव | चन्दनद्रवेण जलस्यौज्ज्वल्यं लाञ्छनस्थाने कज्जलकालिमा । "शुद्धा सुधादीधितिमण्डलीयम्" इति नैषधे ॥३३॥ हील० स्त्रियश्चन्दनैरञ्जनैर्गृहवापीषु चन्द्रत्वं दद्युः ||३३|| हीसुं० पुरि तत्र निजामसाहिनाजनि राज्ञा रघुसूनुनीतिना । तदुपात्तदिशा 'महस्विना विदधे येन यमोऽपि 'दण्डभृत् ॥३४॥ ( १ ) निजामसाहबहिरी नामराजा । (२) रामतुल्यन्यायेन । (३) निजामसाहिना गृहीतहरीता । (४) प्रतापवता । (५) दण्डो राजदेयांशः यष्टिश्च ॥ ३४ ॥ हील० तत्र निजामसाहिः पतिर्जातः । गृहीताशेषप्रतापवता येन यमोऽपि दण्डदो दण्डधरो वा कृतः | ३४|| हीसुं० 'समरे निहतारिनिष्पतद्रुधिराह्वासवपानकाङ्क्षया । 'यदसिच्छलतः 'स्फुटीकृता 'रसनेवा' म्बुजबन्धुसूनुना ॥ ३५ ॥ (१) सङ्ग्रामे । ( २ ) व्यापादितरिपुशरीरनिः सरल्लोहितमाध्वीकपानाभिलाषेण । ( ३ ) निजामसाहिखड्गलताच्छलात् । ( ४ ) प्रकटीकृता । (५) जिह्वा । ( ६ ) सूर्यपुत्रेण । यमेनेत्यर्थः ॥३५॥ हील० सम०। यत्खड्गदम्भाद्यमेन रक्तपानार्थं जी (जि)ह्वा प्रकटीकृता ॥३५॥ हीसुं० 'महसां निवहे महीशितु विपिनेऽपि स्फुरितेऽतिदुःसहे । 'दवधीविधुरास्त'दाश्रयाः 'प्रतिपक्षाः सरसीर्ज "गाहिरे ॥ ३६ ॥ ( १ ) प्रतापानाम् । ( २ ) समूहे । (३) निजामसाहेः । ( ४ ) वने । (५) प्रकटीभूते । (६) 1. इति देवगिरिनगराङ्गना: हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy