________________
२०१
षष्ठः सर्गः ॥ हीसुं० 'क्व[ चि]दिन्दुमणीमिथोमिलबहलोद्योतनिकेतकैतवात् ।
ध्रुववासविधानकाङ्क्षिणी वसति स्वैरमिवा'त्र पूर्णिमा ॥२७॥ (१) चन्द्रकान्तमणीनां परस्परमेकीभवन्निबिडालोको येषां तादृशानां गृहाणां कपटात् । (२)
शाश्वतस्थितिकरणाभिलाषुका । (३) अत्र देवगिरौ ॥२७॥ हील० क्वचिच्चन्द्रकान्तकृतगृहच्छलात् निश्चला पूर्णिमैव ॥२७॥ हीसुं०- 'क्वचिदिन्द्रमणीनिकेतनच्छलभूच्छायमुदीत्वरैः "करैः ।
"द्विषतेव विवस्वता पुरीं शरणीकृत्य "युयुत्सु “लक्ष्यते ॥२८॥ (१) कुत्रापि । (२) नीलरत्नभवनकपटं तमः । (२) उच्चैनिःसरद्भिः । (३) करैः
किरणैर्हस्तैश्च । (५) वैरिणा । (६) रविणा । (७) योद्भुमिच्छुः । (८) दृश्यते ॥२८॥ हील० अपि नीलरत्नकृतगृहच्छलाद्ध्वान्तं उच्चैः किरणैः सूर्येण सह योद्धमिच्छर्दृश्यते ॥२८॥ हीसुं० नगरे नगरन्ध्रकृद्द्युतो नितरां दिद्युतिरेऽत्र नागराः ।
"मरुतां 'तनुगळखर्व तामिव कर्तुं विधिना विनिर्मिताः ॥२९॥ (१) स्वामिकार्तिकसमानकान्तयः । “सनगरं नगरन्ध्रकरोजसः" इति रघौ । क्रौञ्चाचलस्तस्य छिद्रकर्ता गुहः बाणेन विद्ध इति तद्वृतिः । (२) अतिशयेन । (३) रेजुः । (४) देवानाम् ।
(५) शरीरसौन्दर्याभिमानाधरीकरणाय ॥२९॥ हील० नग०। क्रौञ्चाचलस्य छिद्रं कर: स्वामिकार्तिकस्तद्वत्कान्तिमन्तः पौराः शुशुभिरे । उत्प्रेक्ष्यते । देवान्
गर्वगिरेः पातयितुं धात्रा कृताः ॥ २९॥ हीसुं० रतिकान्तकलावहेलियत्तरुणानां 'तनुरामणीयकम् ।
स्पृहयन्त इवात्मजन्मनो निकटेऽ हर्निशमा सते सुराः ॥३०॥ (१) स्मररूपश्रीतिरस्कारिणां देवगिरेयूनाम् । (२) शरीरचारुताम् । (३) ब्रह्मणः । (४)
समीपे । (५) नित्यम् । (६) तिष्ठन्ति ॥३०॥ हील० रतिः । ब्रह्मणो निकटे सुरास्तिष्ठन्ति । उत्प्रेक्ष्यते । देवगिरे गराणां स्मराधिककायसौन्दर्यं वाञ्छन्त
इव ॥३०॥ हीसुं० 'प्रतिपञ्चमुखं 'द्विषं 'व्ययीकृतसर्वास्त्रतया "निरायुधः ।
अकरोदि दमङ्गनानिभादिव 'हेती: शतश: स्मरः पुनः ॥३१॥ (१) ईश्वरम् । (२) रिपुम् । (३) क्षिप्तसमस्तशस्त्रत्वेन । (४) निरस्त्रीभूतः । (५)
देवगिरिरमणीकपटात् । (६) प्रहरणानि ॥२१॥ 1. अपि नीलमणी० हीमु० । 2. इति देवगिरिगृहाः हील० । 3. ०ताकृतये विश्वकृता कृता इव हीमु० । 4. इति देवगिरनगरनागराः हील० । 5. नामिषा० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org