________________
२००
'श्री हीरसुन्दर' महाकाव्यम् उत्प्रेक्ष्यते । भूस्पृशां देवानामयमेव देवो, नान्य इति वक्तुम् ॥२१॥ हीसुं० दिशि बिभ्रति यत्र भूभृतः श्रियमभ्रषशृङ्गसङ्गिनः ।
'किमगस्तिमुनि "कुलाचला निज विद्वेषिभयद्रुताः श्रिताः ॥२३॥ (१) धारयन्ति । (२) शैलाः । (३) गगनालिङ्गिशिखरकलिताः । (४) मन्दरप्रमुखगिरयः ।
(५) स्वरिपुरिन्द्रस्तद्भयेन नष्टाः । (६) आश्रिताः ॥२३॥ हील० दिशि० यत्रोत्तुङ्गशृङ्ग गिरयः शोभन्ते । उत्प्रेक्ष्यते । इन्द्रभयादन्तरीक्षं श्रिताः ।।२३।। हीसुं० 'विपिनानि 'पदे पदे मुदं ददते यत्र रविलासशालिनाम् ।।
"स्फाटिकाचलमूर्द्धनीव “यद्विजितं चैत्ररथं "हिया ययौ ॥२४॥ (१) वनानि । (२) स्थाने स्थाने । (३) तरुणानाम् । (४) कैलासशिखरे । (५)
यैर्वनैर्विजितम् । (६) धनदवनम् । (७) लज्जया ॥२४॥ हील० यत्र विलासिनां हर्षदानि वनानि सन्ति । येन जितं चैत्ररथं कैलाशशिखरे गतम् ॥२४॥ हीसुं० 'सरितो दिशि यत्र निम्नगेत्य पवादं व्यपनेतुमात्मनः ।
"स्थितवन्त्य 'उपेत्य सेवितुं किम पाचीगृहनाभिसम्भवम् ॥२५॥ (१) नद्यः । (२) निन्दाम् । (३) अपहर्तुम् । (४) स्थिताः । (५) आगत्य । (६)
दक्षिणदिस्थायुकमाणिक्यस्वामिनम् ॥२५॥ हील. सरि० । यत्र नद्यो नीचगामिनीत्यपवादं निराकर्तुं श्रीऋषभदेवं श्रिताः ॥२५॥ हीसुं०→ पिबतान्मुनिरेष नोऽपि मा पतिवत्पर्वजा भयादिति । दिशि यत्र समेत्य संश्रिता इव जीववृषभाङ्कपारगम् ॥२५॥
इति पाठान्तरम् । इति गिरिवननद्यः ॥ हील. पिब०। यथास्मत्पतिरर्णवः पीतः तद्वदेष मुनिरस्मान्मा पिब इति भयाद्गिरिजा नद्यः श्रीऋषभदेवं
श्रिताः ॥२५॥ हीसुं० 'मणिकाञ्चनकल्पनन्दनै विबुधैः ३श्रीहरिभिः स जिष्णुभिः ।
इह "देवगिरेरिव श्रियं कलयन्देवगिरिविरोचते ॥२६॥ (१) रत्नैः, स्वर्णैः, आचारैः कल्पद्रुमैश्च, पुत्रैर्वनेन च । (२) पण्डितेर्देवैश्च । (३) शोभाकलिताश्वैर्लक्ष्मीयुक्तकृष्णैश्च । (४) जयनशीलभटैः, इन्दैश्च सहितैः । (५) मेरोः । (६)
देवगिरिनाम नगरम् ॥ हील० मणि०। मेरुरिव देवगिरि ति । कैः कृत्वा ?। नन्दनवनेन सुतैर्वा लक्ष्मीकृष्णैर्वा श्रीयुक्ततुरगैः
जैत्रभरैर्वा इन्द्रेण वा ॥२६॥ 1. किम शक्रभयद्गताः श्रिताः कुलशैला जिनमन्तरिक्षम् हीमु० । * एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org