SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः ॥ १९९ (१) अपि पुनरर्थे । (२) अन्तरिक्षपार्श्वनाथः । (३) प्रापयितुम् । (४) मोक्षनगरम् । (५) भव्यानाम् । (६) भूतलात् । (७) चलितः ॥१८॥ हील० अपि पुनरन्तरीकपार्श्वः सुखकृत् आस्ते । उत्प्रेक्ष्यते । गगने स्थितिदभ्भात् प्राणिनो मोक्षं प्रापयितुम ॥१८॥ हीसुं० फणभृद्भगवनिभालनादग्नुभूताहिविभुत्ववैभवः । "स्पृहयन्भुवनत्र यीशतां फणदम्भाद्भजतीव यं पुनः ॥१९॥ (१) नागेन्द्रः । (२) पार्श्वनाथदर्शनात् । (३) प्राप्तधरणेन्द्रश्रीकः । ( ४ )काङ्क्षन् । (५) त्रैलोक्यैश्वर्यम् ॥१९॥ हील० फण०। श्रीपार्श्वनाथदर्शनात् प्राप्ताहीन्द्रत्वसम्पद् नागेन्द्रः स्वर्गमृत्युद्वयीशतां वाञ्छन् यं सेवते ।। हीसुं० इह जीवत' आदिमप्रभोरपि सोपारकनामपत्तने । प्रतिमा प्रतिभासते सतां वृषकोशः प्रकट: किमार्षभेः ॥२०॥ (१) जीवतस्वा( त्स्वा )मी ऋषभदेवः । ( २ ) पुण्यभाण्डागारः । (३) भरतचक्रिणः ॥२०॥ हील० इह दक्षिणास्यां जीवत्स्वामिप्रतिमा भासते । उत्प्रेक्ष्यते आर्षर्भेर्भरतचक्रिणः । पुण्यभाण्डागार इव ॥२२॥ हीसुं० 'कारटाभिधपार्श्वनायको दिशि 'यत्रास्ति पुनः प्रभाववान् । न जहाति कदापि यत्पदं किमु तस्यैव समीहया फणि ॥२१॥ (१) करहडानामपार्श्वनाथः । (२) करहडापुरे । (३) माहात्म्ययुक्तः । ( ४ ) त्यजति । (५) __ पार्श्वनाथचरणम् । (६) तीर्थकृत्पदकाङ्क्षया । (७) नागः ॥२१॥ हील० करहेटकपार्श्वनाथः समस्ति । फणी नागेन्द्रो यत्पदं न त्यजति । उत्प्रेक्ष्यते । तस्यैव पदं मोक्षः तीर्थकृत्पदवी वा तस्य वाञ्छया ।।* २०॥ हीसुं० विभवैः सह 'माधवादयः प्रतिवर्ष यमुयेत्व भेजिरे । । किमिदं 'गदितुं तनुमतां मरुतामप्ययमेव “देवता ॥२२॥ (१) स्वसर्वपरिवारेः । (२) कृष्णप्रमुखा देवा । (३) करहडापार्श्वप्रभोः सन्निधौ समागत्य । (४) स्वसेवककृतगीतनाटकादिभक्तिभिः सेवन्ते स्म । (५) कथयितुम् । (६) जनानाम् । (७) देवानामपि । (८) देवः ॥२२॥ हील० विभ० । कृष्णादयो देवाः स्वस्वभक्तपुरषपात्रवाद्यादिभिः सार्द्धः समीपे उपेत्य यं पार्श्वनाथं भेजिरे। 1. द्वयीश० हीमु० । 2. इत्यन्तरिक्षपार्श्वनाथः हील० । 3. हील प्रतौ हीमु० चैतेषां त्रयाणां श्लोकानामेषोऽनुक्रमः २२२०-२१ । 4. इति जीवत्स्वाम्यादिदेवः हील०। 5. करहेटकपार्श्व० हीमु०। 6. ०वर्षे य० हील०। 7. इतिश्रीकरहेटकपार्श्वनाथ: होल० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy