SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः ॥ २०५ हील० यूनामानन्दा एव कन्दल्य: कन्दास्तेषु मेघसदृशैः कामक्रीडाकरणैः । देवी च देवश्च देवौ । 'स्त्रिया सहोक्तौ पुमान् शिष्यते न स्त्री' । ताविव दम्पती सुखं वसतः ॥४५॥ हीसुं० 'परशासनशास्त्रमालिकामयमध्येतुमथो "गुरोगिरा । व्रजति स्म कदापि दक्षिणां 'हरितं हीरमुनि दिनेशव[ त्] ॥४६॥ (१) शैवशासनस्यागमश्रेणीम् । (२) हीरहर्षः । (३) पठितुम् । (४) विजयदानसूरिवचनेन । (५) दिशम् । (६) हीरकुमारनामा मुनिः । (७) रविरिव ॥४६॥ हील० अयं सूर्यवत् कदापि दक्षिणां दिशं व्रजति स्म ॥४६।। हीसुं० अथ देवगिरावगम्यता खिलतर्काधिजिगांसयामुना । पटलेन पयोमुचां यथा 'सलिलादानसमीहयाम्बुधौ ॥४७॥ (१) समस्तप्रमाणशास्त्रपिपठिषया । इश्च । 'इङ्अध्ययने' इत्यस्य गम स्यात् । सनि परे अधिजिगांसते, इति प्रक्रियायाम् । (२) मेघवृन्देन । (३) जलग्रहणकाङ्क्षया ॥४७॥ । हील० अथ० । अमुना हीरहर्षगणिना देवगिरौ पढितुं गतम् । यथा जलग्रहार्थं अब्धौ अब्दौघेन गम्यते ॥४७॥ हीसुं० पढता सह धर्मसागरवतिना देवगिरौ गुरुर्व्यभात् । 'सहकार इव प्रफुल्लता नवराजादनशाखिना वने ॥४८॥ (१) आम्र इव । (२) विकसितनवप्रियालतरुणा ॥४८॥ हील० धर्मसागरयतिना सह गुरु ति स्म । यथा विकसत्प्रियालद्रुमेण सह वने सहकारो भाति ॥४८॥ हीसुं० पुरसङ्घजनैः 'प्रणोदितैर मुना धीतिकृते कृतीन्दुना ।। प्रतिबिम्बमिव "धुसद्गुरोर्द्विज ५आनायि ततः कुतश्चन ॥४९॥ (१) प्रेरितैः । (२) हीरहर्षमुनिना । (३) अध्ययनाय । (४) बृहस्पतेः । (५) आहूतः ॥४९॥ हील० हीरहर्षमुनिना प्रेरितैः सङ्घरध्ययनार्थं बृहस्पतितुल्यः आकारितः ॥४९॥ हीसुं० तदुपान्तभुवं व्यभूषयत्स ततो गौरगरुद्गतिर्द्विजः ।. ___ अवतीर्ण इवारविन्दभूः स्वयं(?) स्वकसर्गस्य 'दिदृक्षया क्षितौ ॥५०॥ (१) हीरहर्षसमीपभूमीम् । (२) हंसगमनः । (३) ब्रह्मा । (४) स्वकृतभूलोकस्य । (५) दष्टिमिच्छया ॥ हील० स हंसगतिर्द्विजस्तत्समीपे स्थितः । उत्प्रेक्ष्यते । स्वसृष्टिं द्रष्टुं ब्रह्मा भुव्यागतः ॥५०॥ हीसुं० 'मृडमूनि निवास सौहृदान्मिलितुं जह्वसुतामिवागताम् । ४अलिकाद्धविधुं "ललाटिकां वहमानो हरचन्दनोद्भवाम् ॥५१॥ 1 मूर्धनिवा० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy