SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १९७ षष्ठः सर्गः ॥ हीसुं० 'स्मरविष्टपजैत्रशस्त्रितस्त्रितरोदीर्णविनोद विभ्रमात् । व्रजतीव कुतु(तू )हली क्षितुं किमु मन्दीभवदंहिरे"शुमान् ॥९॥ (१) कन्दर्पस्य त्रिभुवनजयनशीलायुधवदावरिताभिः प्रधानस्त्रीभिः । प्रकटीकृतक्रीडाविलासात् । "रहः सहचरीमेतां राजन्नपि स्त्रितरां क्षण" मिति नैषधे । (२) दुष्टम् । (३) गमने अत्वरितीभवन्तः तेजोभिः प्रतापै रहिता वा भवन्तः] । [अंहूय] श्चरणाः किरणा वा यस्य । "साहस्रैरपि पहिभिरभिव्यक्तीभवन्भानुमा" निति अंहिशब्देन किरणा नैषधे । तथा दिशि मन्दायते तेज" इति रघुवंशे । (४) सूर्यः ॥९॥ हील० कुतूहलरसान्मन्दकरो रविर्याति । उत्प्रेक्ष्यते । स्मरस्य भूजैत्रायुधीभूताभिरामरामाभिः कृतविभ्रमान द्रष्टुम् ॥५॥ हीसुं० शमनस्य मृगीदृशो 'दिशो 'मणिमुक्ताफलशालमानया । सरितां दयितस्य वेलया विलसन्मे खलयेव दिद्युते ॥१०॥ (१) दक्षिणस्याः (२) रत्नमौक्तिकयुक्तया । (३) समुद्रस्य । (४) काञ्च्येव ॥१०॥ हील० समुद्रवेलया रेजे । उत्प्रेक्ष्यते । दक्षिणस्य दिश(शो) मेखलया ॥१०॥ हीसुं० तिलकं 'हरिताम'सौ हरिद्यदगस्तिमुनिरप्यमुं श्रितः । 'किमपाच्यपयोनिधिः "स्वनौरिदमा वेदयते 'तरङ्गजैः ॥११॥ (१) समस्तदिशाम् । (२) चित्रम् । (३) दक्षिणा तत्र वासाद्दक्षिणसमुद्रः । (४) कथयति । (५) कल्लोलजातशब्दैः ॥११॥ हील. दक्षिणार्णवः किमिति वक्तीव । इतीति किम् ? । दक्षिणा दिग् दिशां तिलकं यस्मान्माणिक्यस्वामी ऋषभदेव एनां श्रितः ॥११॥ हीसुं० मलयो 'मलयद्रुमेदुरः शुशुभे यत्र सुमेरुसोदरः । शमनस्य विलाससानुमानिव रन्तुं निजदिङ्मृगीदृशा ॥१२॥ (१) चन्दनतरुयुतः । (२) मेरुबन्धुरुच्चैस्तरत्वात् । (३) यमस्य । (४) क्रीडापर्वतः । (५) क्रीडितुम । (६) दक्षिणदिक्पत्न्या सार्द्धम् ॥१२॥ हील. मलयाचलः । उत्प्रेक्ष्यते दक्षिणदिशा सह क्रीडितुं यमस्य पर्वतः ॥१२।। हीसुं० मलयो 'बलिवेश्मवद्वभौ कलयन्कुण्डलिमण्डलीरिह । विशदामृतकुण्डमण्डितो 'धृतपुन्नागबलाहकोत्सवः ॥१३॥ (१) नागलोक इव । (२) भुजङ्गममालाः । (३) निर्मलानां जलानां सुधानां च 1. ०मसावमूं जिनमाणिक्यविभुर्यतः श्रितः हीमु० । 2. इति केवलदक्षिणा दिग् हील० । 3. अथ कतिचित्पदार्थवर्णनावसरः । हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy