SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १९६ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० 'असमानमहा 'दिनेशवन्म तिमांश्चित्रशिखण्डिपुत्रवत् । "भटवच्चरणोल्लसन्मना विनयी यो रघुसूनुवद्व्यभात् ॥५॥ हील० ( १ ) परैरसह्यतापः । असाधारणतेजाश्च । (२) रविरिव । ( ३ ) कुशाग्रीयमतिः । बुद्धिमान् । ( ४ ) वाचस्यतिरिव । "विचित्रवाक्चित्रशिखण्डिनन्दन" इति नैषधे । (५) चारित्रे विकसच्चेताः । चः पुनरर्थे, 'सुभटस्तु सङ्ग्रामे प्रमाद्यन्मानसः विग्रहमिच्छन्ति 'भटा' इति वचनात् । (६) विनयकलितः । ( ७ ) लक्ष्मण इव । (८) "विनये लक्ष्मण" इति काव्यकल्पलतायाम् ॥५॥ अस० । यः असह्यप्रतापः सूर्यवत्, बृहस्पतिवत् बृद्धिमान्, पुनर्यः भटवत् चारित्रे उल्लासवान् । यथा भटो रणोल्लसन्मनाः स्यात् । पुनर्यः विनये रामभ्रातृवत् । अथवा विशेषेण नयो न्यायो यस्मिन् तादृशः सन् राम इव व्यभात् ||५|| हीसुं० गिरिराज इव क्षमाधरो बुधलक्ष्मीं दधद भ्रमार्गवत् । “जलजासनावद्भ'वान्तकृतधुर्यः स ' महोक्षवद्बभौ ॥६॥ हील० (१) हिमाचल इव । (२) क्षमा- क्षान्तिर्भूमिश्च । (३) पाण्डित्यश्रियम् । सोमपुत्रस्य शोभाम् । (४) गगनमिव । ( ५ ) ब्रह्मा इव । (६) संसारच्छेदा( रोच्छेदकः) । (७) पञ्चमहाव्रतभारोद्धारे धुरीणः । (८) वृषभ इव ॥६॥ हील० गिरिरा० । यः क्षान्तिपाण्डित्ययुक्तः संसारोच्छेदकारी व्रतधुरंधरः शुशुभे || ६ || हीसुं० 'तरुणी तपनात्मजन्मनो हरिदास्ते भुवि नाम दक्षिणा । किमु कस्यचापि कोपिनो 'व्रतिनः 'स्वर्निपपात शापतः ॥७॥ (१) यमपत्नी । ( २ ) दिग् दक्षिणा । "निजमुखमितः स्मेरं धत्ते हरेर्महिषी हरित्" । तथा "वरुणगृहिणीमाशामासादयन्तममुं रुची" ति नैषधे । इदमपि तद्वत् । ( ३ ) रोषवतः । ( ४ ) तापसस्य ( ५ ) स्वर्गः । (६) उच्चैः स्थानात्त्रुटित्वा अधोभूमौ पतितः ॥७॥ तरु०। सूर्यसुतो यमस्तस्य वधूर्दक्षिणा दिगस्ति । उत्प्रेक्ष्यते । अनुक्तनाम्नस्तापसस्य कोपाद्देवलोको भुवि आगतः ॥७॥ हीसुं० वसति स्म घटोद्भुवो मुनिर्दिशि यस्यां चिरमुज्झितान्यदिग् । किमु शम्बरवैरिविभ्रमैर्युवतीभिर्युववद्वि मोहितः ॥ ८ ॥ (१) अगस्तितापसः । ( २ ) त्यक्तापराश: । ( ३ ) स्मरविलासैः । (४) दक्षिणात्यतरुणीभिः । (५) तरुण इव । ( ६ ) मोहं प्रापितः ॥८ ॥ हील० यत्रागस्तिरस्ति । उत्प्रेक्ष्यते । दक्षिणात्यस्त्रीभिः कामविभ्रमैर्मोहितः ॥८॥ १. इति हीरगणे : पढनगुणवत्वम् हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy