SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ऐं नमः ॥ अथ षष्ठः सर्गः ॥ हीसुं० अथ सूरिपुरन्दरान्तिके निखिलं वाङ्मयमा मनन्न'यम् । 'गणधारिसुधर्म्मसन्निधाविव' जम्बूः 'सुषमाम'°पूपुषत् ॥१॥ (१) अथ दीक्षाग्रहणानन्तरम् । ( २ ) विजयदानसूरिसमीपे । (३) समस्तम् । ( ४ ) शास्त्रम् । ( ५ ) पठन् । “पठत्यमनती" त्यपीति क्रियाकलापे । ( ६ ) हीरहर्ष: । (७) सुधर्म्मस्वामिपार्श्वे । (८) जम्बूरिव । ( ९ ) सातिशायिनी शोभाम् । (१०) पुष्णाति स्म ॥१॥ हील० अथ सूरसमीप आगमं पठन् शोभां पुष्णाति स्म । यथा सुधर्मस्वामिसमीपे पठन् जम्बूस्वामी शोभां पुष्णाति ॥ १॥ १ हीसुं० श्रुतमत्र गणेन्दुनामुना निहितं स्फूर्त्तिमनुत्तरां दधौ । इव शुक्तिकसंपुटान्तरे सलिलं 'स्वातिमिलत्पयोमुचाम् ॥२॥ (१) शास्त्रम् । (२) विजयदानसूरिणा । ( ३ ) स्थापितमध्यापितमित्यर्थः । ( ४ ) चमत्कारकारिताम् । ( ५ ) असाधारणाम् । (६) मुक्ताशुक्तिसंपुटमध्ये । ( ७ ) स्वातिनक्षत्रेण सङ्गच्छमानघनानां नीरम् ॥२॥ हील० श्रुतमेनं प्राप्य शोभते स्म । यथा शुक्तिकयोः सम्पुटमध्ये पतितं स्वातिपयो मुक्ताशोभां धत्ते ॥ * २॥ हीसुं० 'अधिगत्य ततः श्रुतं व्रतक्षितिभर्तुर्दधिरेऽमुना श्रियः । सुरभे: सर मिरेण सौरभं 'मलयोर्वीरुहकाननादिव ॥३॥ (१) प्राप्य । " अधिगत्य जगत्यधीश्वरादथ मुक्ति पुरुषोत्तमात्तत" इति नैषधे । ( ३ ) विजयदानसूरिन्द्रात् । ( ३ ) वसन्तमारुतेन । मलयानिलेनेत्यर्थः ४) सगन्धित्वं परिमलमिति । (५) चन्दनतरुवनात् ॥३॥ हील० अधि० । सूरीश्वराच्छास्त्रं प्राप्यानेन शोभा धृताः । यथा वसन्तवायुना मलयाचलवनात्सुगन्धितां प्राप्य शोभा थ्रियन्ते ||३|| हीसुं० स्खलति स्म न कुत्रचिद्व' चोरचना 'स्यागमपारदृश्वनः । 'हूदिनी हृदयेशितुश्च'लज्जलकल्लोलपरम्परा इव ॥४॥ (१) वाग्विलासः । (२) हीरहर्षस्य । ( ३ ) शास्त्रपारगामिनः । (४) समुद्रस्य । (५) तरङ्गमाला इव ॥४॥ हील० स्खल० । अस्य वाक्चातुर्यं क्वापि शास्त्रे न स्खलति स्म । यथा नदीशस्य जलकल्लोला क्वापि [न] स्खलन्ति । अत्र किमु इवार्थे ॥ * ४ ॥ 1. ०णीन्दु० हीमु० । हीलप्रतौ 'गणीन्दुना' इतः परं मितेऽब्दे १५९६ कार्तिकस्य .... एवं दृश्यते । पश्चादवाच्यमस्ति । 2. किमु हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy