________________
१९०
'श्री हीरसुन्दर' महाकाव्यम् हीसुं० 'कामनीयकमशेषम मुष्याऽन्वेषयन्वटतरुं स ददर्श ।
५श्रीतिरस्कृतसमग्रवनस्य च्छत्रमेतदिव मुनि वनस्य ॥१९८॥ (१) मनोज्ञताम् । (२) का( क )मनीयस्य भावः कामनीयकम् ‘मनोज्ञादित्वा'द्वण् । (२)
वनस्य । (३) पश्यन् । (४) हीरकुमारः । (५) शोभया जितसमस्तभुवनकाननस्य ॥१९८॥ हील० काम० । स वनस्य मनोज्ञतां पश्यन् वटं ददर्श । उत्प्रेक्ष्यते । धनाधिराजवनस्यालिके छत्रम् ॥१९९॥ हीसुं० 'न्यक्षरुक्षनिकरेषु गुरुत्वं यद्विभर्ति मनुजेष्विव भूमान् ।
गौरवात्किमिति श्लोलविहङ्गैर्वीज्यते स्म चमरैरिव पक्षैः ॥१९९॥
(१) सर्ववृक्षगणेषु । (२) महत्त्वम् । (३) लोलैरुड्डयनाच्चपलैष्प( : पक्षिभिः ॥१९९॥ हील० न्यक्ष० । समग्रवृक्षेषु महत्त्वात्पक्षिभिः पीज्यते स्म ॥२००॥ हीसुं० 'रागिण: 'प्रणयतोऽखिललोकान्शैशवावधिजगज्जनगेयान् ।
"तद्गुणानिव निशम्य सराग: "पल्लवैरयम सा(शा)लत 'साल ॥२००॥ (१) सरागान् । (२) कुर्वतः । (३) बाल्यावस्थामारभ्य त्रिभुवनजनानां गातुं योग्यान् । (४) हीरकुमारगुणान् । (५) श्रुत्वा । (६) रागयुक्तः । (७) किसलयैः । (८) शुशुभे
॥२००॥ हील. रागि० । रागयुक्तान् कुर्वतस्तद्गुणान श्रुत्वा साल: सरागः सन् पल्लवैरशोभत ॥२०१॥ हीसुं० 'वल्कलैष्का : क)लयतात्मनि भूषां बिभ्रता कपिशशालिजटालीम् ।
काननस्थितिमता जनि 'तेना तन्वता किमु तपो “वतिनेव ॥२०१॥ (१) वृक्षत्वग्भिः । (२) पिङ्गलशोभमानजटासटा योगिकेशाश्च । (३) वने वसता । (४)
जातम् । (५) वटेन । (६) सृजता । (७) अनाहारलक्षणम् । (८) तापसेनेव ॥२०१॥ हील. वल्क० । वल्कलैश्छल्लीभिः शोभितेन । पुनः पीतरक्तानां वृक्षमूलानां जटानां वा श्रेणी दधता ।
पुनर्वने स्थितेन । पुनस्तपः कृर्वता वटेन यतिनेव जातम् ॥२०२॥ हीसुं० निष्कुहान्तरितविष्करवारा( र)स्फारतारनिनदैर्वटशाखी ।
यो मरुत्तरलपल्लवहस्तैराह्वयन्निव निजान्तिक मेतम् ॥२०२॥ (१) कोटरसंस्थितपक्षिनिकराणां पटुरुच्चैः कूजितरवैः । (२) पवनचञ्चलकिसलयकरैः ।
(३) स्वसमीपे कुमारमाकारयतीव ॥२०२॥ हील. निष्कुहान्तरितानां स्वकोटरमध्यगतानां पक्षिणां रावैः । पुनर्वायुवेपितशाखाहस्तैो वट: एतं हीरकुमारं
स्वसमीपे आकारयन्निव ॥ २०३।। 1. शालः हीमु० । 2. क एतम् हीमु० । 3. दीक्षादानोचितवटतरुवर्णनम् हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org