SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १८९ पञ्चमः सर्गः ॥ अपगुणा रात्रयो वा येन । (५) उदयाचलमस्तकशृङ्गोत्सङ्गम् । (६) सूर्यः । (७) उद्गमनाय ॥१९३॥ हील० संय०। चारित्रग्रहणार्थं स वने आजगाम । यथा रविरुद्गमनार्थं उदयाद्रावागच्छति । किंभूतः स रविश्च ?। दिताः खण्डिता दोषा अपगुणा रात्रयश्च येन सः ॥१९४।। हीसुं० 'कौतुकाद्ध्वमुपेत्य 'वसन्ती रस्वष्णु( : पु )रीमिव पुरीम"वगत्य । आगतं किमनु 'नन्दनमत्रोद्यानमेष निपपौ नयनाभ्याम् ॥१९४॥ (१) भूतलावलोकनार्थं कौतुहलेन भुवमागत्य । (२) तिष्ठन्तीम् । (३) अमरावतीम् । (४) ज्ञात्वा । (५) नन्दनवनमिव ॥१९४॥ हील० कौतु० । हीरकुमार: वनं पपौ । उत्प्रेक्ष्यते । कुतूहलात्पृथ्व्यामागताममरावतीं वीक्ष्य अनु-पश्चान्नन्दनवनं आगतम् ॥१९५॥ हीसुं० १शारिकाशुकशिखण्डिकपोतीपोतकेलीकलनाकमनीयम् । मत्तवारणविचित्रितसालं प्राविशद्गृहमिवोपवनं सः ॥१९॥ (१) शारिकाशुकमयूराः पारापतीशिशुक्रीडाकरणेन मनोज्ञम् । (२) “मत्तालम्बोपाश्रयः स्यादिति" हैम्याम् । विशिष्टानि चित्राणि संजातान्यस्यां तादृशी शाला यत्र । मदोद्धता गजास्तथा विशिष्टाश्चित्रा औषधि यस्तद्युताः, 'शसयोरेक्यात्' द्रुमा यत्र ॥१९५॥ हील. शारिका० । सद्मनि सारिकादीनां सद्भावात्तै रमणीयम् । पुनर्विशिष्टाश्चित्रा आखुपर्णी औषधयो वा। चित्रा उरगविशेषाः 'चित्रडि' इति प्रसिद्धास्तैर्युक्ता वृक्षा यत्र, तथा विविधचित्रसहिता शाला यत्र । श्लेषे शसयोरैक्यात् । तादृशं वनं स प्रविशति स्म ॥१९६।। हीसुं० पुष्पपल्लवफलानि दधानाः शाखिनः 'स्मितशिखाग्रशयेष । स्वागतं द्विजरवैष्किा : कि) मुदीर्याऽस्या तिथेयम तिथेरिह चक्रुः ॥१९६॥ (१) विकचशाखाशिखरहस्तेषु । (२) सुखेनागतं कुशलप्रश्नादि वा । (३) पक्षिशब्दैः । (४) उक्त्वा । (५) अतिथिसत्क्रियाम् । (६) प्राघुणाय ॥१९६॥ हील० वृक्षाः शाखाकरेषु पुष्पादीन् धृत्वा, पुन: पक्षिरवैः कुशलं पृष्ट्वाऽस्य सत्क्रियां कुर्वन्ति स्म ॥१९७|| हीसुं० तत्र 'सस्यभरगौरवभाग्भिः 'कोकिलाक्वणितसंस्तववाग्भिः । पादपैरयमनम्यत वन्यै विसूरिपुरहूतधियेव ॥१९७॥ (१) फलगणभारयुतैः । (२) पिककूजितस्तुतिवचनैः । (३) वनभवैः । (४) भविष्य सूरीन्द्रधिया ॥१९७॥ हील० फलगौरवं कुर्वद्भिः पिकपञ्चमालापा एव संस्तववचनं येषां तादृशैर्वृक्षैर्नमस्कृतः ॥१९८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy