________________
१८५
पञ्चमः सर्गः ॥ (५) चन्दनरसस्य विलेपनम् । (६) चन्द्रज्योत्स्नाम् । (७) चन्द्रेण । (८) मैत्र्यार्थम् । (९)
अनुरक्तयोश्चरणपङ्कजयोर्विषये । (१०) प्रेषिताम् ॥१७६॥ हील० काप्य० । काचिदुत्सुकिता अलक्तधिया चन्दनमण्डनं अकरोत् । उत्प्रेक्ष्यते । स्वोपरि रागवशैः
पत्कजयोः सख्याय प्रेषितां चन्द्रिकां न ? अपि तु ज्योत्स्नेव । नकारो मौलार्थमेव वक्ति ॥*१७७।। हीसुं० दर्शयन्त्य परपद्ममुखी तं कापि 'पाणिमकरोन्निजमुच्चैः ।
२व्योमपल्वलमिव 'स्मयमानोन्नालताम्रनलिनं "प्रणयन्ती ॥१७७॥ (१) अन्या स्त्रीः । (२) हस्तम् । (३) गगनतडागम् । (४) विकचानि अत्युच्चमृणानि
रक्तानि कमलानि यत्र तादृशम् । (५) कुर्वन्तीव ॥१७७॥ हील० कापि कजमुखी स्वपाणिमूर्ध्वमकरोत् । उत्प्रेक्ष्यते । विकसितमुन्नालं रक्तकजं यस्मिन् तादृशं
गगनतटाकं कुर्वन्ती(ती)व ॥१७८।। हीसुं० 'सुभ्रुवा'मिह महे जगृहे किं 'चक्षुषैव नि'खिलेन्द्रियवृत्तिः । ज्योतिरचिरिव 'च-ण्डरुचा 'यत्क्वापि सा प्रभवति स्म न किञ्चित् ॥१७८॥
__ इति पौराङ्गनाचेष्टितानि ॥ (१) स्त्रीणाम् । (२) अस्मिन् । (३) दीक्षामहोत्सवे । (४) गृहीता।(५) नेत्रेणैव । (६) चतुर्णा श्रवण-नासिका-रसना-स्पर्शनानाम्नामिन्द्रियाणां व्यापारः । (७) ग्रह-नक्षत्रतारककान्तिः । (८) सूर्येन(ण)।(९) कुत्रापि । (१०) समर्थो भवति । (११) किञ्चिदिति
श्रोतुमाघ्रातुमास्वादयितुं स्पष्टुंमपीति ॥१७८॥ हील० स्त्रीनेत्रेऽखिला वृत्तिर्गता । यथा सूर्येण नक्षत्राणां वृत्तिर्गृहीता । यतश्चतुरिन्द्रियवृत्तिः श्रोतुमाघ्रातुं
आस्वादयितुं स्पष्टुं न क्षमी बभूव ॥१७९॥ हीसुं० 'रामणीयकतिरस्कृतकामं तं निपीय नयनैष्य( : प)थि कामम् । __ "वल्लकीकुलसखीमिव वाणीमि त्यथो युवतिराजिरभाणीत् ॥१७९॥ (१) वपुःकमनीयत्वेन जितस्परम् । (२) सादरमवलोक्य । (३) मार्गे । (४) अतिशयेन
वीणाव्रजवयसीमिव । (५) अथ-कुमारस्य सम्यग्विलोकनानन्तरम् ॥१७९॥ हील० राम० । तं दृष्ट्वा वीणावंशसखीमिव वाचं युवतिश्रेणिर्बभाषे ॥१८०।। हीसुं० 'साम्प्रतं तदिह शैशवशेषः साम्प्रतं व्रतजिघृक्षरयं यत् ।
अन्यथा कथमसावनुकुर्यादात्मना जगति 'जम्बुकुमारम् ॥१८०॥
(१) युक्तम । (२) किञ्चिद्विद्यमानबाल्यावस्था । "प्रणीतवान्[ शैशव शेषवानय''मिति 1. सकलेन्द्रियः हीमु० । हीलप्रतौ 'सकलेन्द्रिय', इत्यस्य उपरि चतुरिन्द्रिय इति टि० । 2. भानुमता हीमु० । 3. इति पौराङ्गनानां कुमारदर्शनौत्सुक्याद्विविधचेष्टितवर्णनम् हील०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org