SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः ॥ १८३ (१) मुक्ताहारम् । (२) कटीतटे । (३) बुद्ध्याः । (४) मेखलायाः । (५) गृहे । (६) अवलम्बिताम् । (७) कामस्य । (८) मुचुकन्दमुकुलकलितमङ्गलमालाम् ॥१६८॥ हील० कापि मणिमेखलाया भ्रमात् स्वश्रोणौ हारं धृतवती । इवोत्प्रेक्ष्यते । कामस्य गृहद्वारे मुचकुन्द मुकुलकलितां वन्दनमालां रचिताम् ।।१६९॥ हीसुं० 'हारचारिमकुचौ 'परया नो वाससा "सरभसं "पिदघाते । "माल्यशालिकलशद्वितयीव “श्रेयसे 'पथि १०धृता ११व्रजतोऽस्य ॥१६९॥ (१) मुक्तालतायाश्चारुत्वं ययोस्तादृशौ स्तनौ । (२) अन्यया स्त्रिया ।(३) नो इति निषेधे । "अमानोना प्रतिषेध" इति वचनात् । (४) वस्त्रेण (५) सोत्सुकम् । (६) पिहितौ । (७) पुष्पमालाकलितकुम्भयुगली । (८) कल्याणाय । (९) मार्गे । (१०) धारिता । पुरस्कृतेव । (११) मार्गे गच्छतोऽस्य कुमारस्य ॥१६९॥ हील० हारेण चारुता ययोस्तादृशौ स्तनौ कयाचित् पिहितौ । उत्प्रेक्ष्यते । गच्छतोऽस्य श्रेयसे मार्गे कुम्भद्वयी धृता ॥१७०॥ हीसुं० 'नूपुरं निजभुजे रभसेनाऽ जीघट"त्कटकविभ्रमतोऽन्या । वैभवैर्भुजभवैरभिभूतं “शीलितुं किमु मृणालमुपेतम् ॥१७०॥ (१) मञ्जीरम् । (२) स्वबाहौ । (३) उत्सुकत्वेन । (४) क्षिपति स्म । (५) वलयबुद्धया। (६) बाहुसञ्जातशोभया । (७) जितम् । (८) कमलनालं सेवितुमागतमिव ॥१७०॥ हील० नूपु० । अन्या वलयभ्रमात् मञ्जीरं भुजे घटयामास । परिधृतवतीत्यर्थः । उत्प्रेक्ष्यते । भुजेन परिभूतं मृणालं सेवितुमागतम् ॥१७१।। हीसुं० 'तद्गवेषणरसोत्सुकचेता: काचना ध्वनि धृतश्लथबन्धम् । ४अम्बरं पहरिणद्रक्स्वकरेणा लम्ब्य संचरति 'चन्द्रकलेव ॥१७१॥ (१) कुमारावलोकनरागेणोत्सुकीभूतचित्ताः । (२) मार्गे । (३) शिथिलीभूतबन्धनम् । (४) वस्त्रं गगनं च । (५) वनिताहस्तेन किरणेन वा । (६) आश्रित्य । (७) व्रजति । (८) शशिलेखेव ॥१७१॥ हील० तन्महेक्षणोत्सुकमनस्का काचिद्धृतं शिथिलं बन्धनं येन तादृशं परिधानं हस्तेनालम्ब्य सञ्चरति । चन्द्रलेखाम्बरं स्वकिरणेनालम्ब्य सञ्चरति ॥१७२।। हीसुं० अन्ययार्द्धरचितात्मकलापात्पातिमौक्तिकभरै रभसेन । सृज्यते स्म "विधये किमु 'लाजोत्क्षेपणा वरयितुतिलक्ष्म्याः ॥१७२॥ (१) अर्द्धप्रोतनिजमेखलायाः सकाशात्पतनशीलमुक्ताफलनिकरैः । (२) औत्सुक्येन । (३) क्रियते स्म (४) आचारार्थम् । (५) लाजानामक्षतानां वर्धापनम् । (६) चरणश्रीपरिणेतुः 1. सातिरभसात्पिद० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy