________________
१८२
'श्री हीरसुन्दर' महाकाव्यम् हीसुं० 'तद्दिदृक्षुर पराञ्जनयष्ट्यानञ्ज सव्यनयनं न तदन्यत् ।
'वामतां भजति यः शितमैव स्यात्त दानन' इतीव विचिन्त्य ॥१६४॥ (१) कुमारं द्रष्टकामा । (२) कज्जलशि( श)लाकया । (३) वामं नेत्रम् । (४) न दक्षिणम् । औत्सुक्यात् । (५) प्रतिकूलतां सव्यतां च । (६) कृष्णता । (७) तस्य मुखे
॥१६४॥ हील० तद्दिदृ० । कुमारं द्रष्टुमिच्छु: काचिदञ्जनशलाकया वामं नयनमानञ्ज न दक्षिणम् । युक्तं यत्प्रतिकूलतां
श्रयते तदास्ये श्यामतैव युक्ता ॥१६५॥ हीसुं० काचना तिरभसान्मृगनाभीवारिणा व्यलिखदेक कपोलम् ।
मन्मुखं 'जितशशी श्रयतेऽसौ गण्डमूर्तिरिति कीव( ?) "विवक्षुः ॥१६५॥ (१) अत्यौत्सुक्यात् । (२) कस्तूरीद्रवेण । (३) चित्रयति स्म । (४) एकमेव गण्डस्थलम् । (५) पराभूतचन्द्रमाः । (६) कपोलकायः । (७) वक्तुमिच्छुः । लोकानां पुरस्तादिति गम्यम्
॥१६५॥ हील० काचन कस्तूरिका[वा]रिणा कपोलं चित्रयति स्म । उत्प्रेक्ष्यते । इति कारणादेव । इतीति किम ?
अयं चन्द्रष्क(: क)पोलमूतिर्मन्मुखं सेवते इति वक्तुमिच्छुः ॥१६६।। हीसुं० तद्विभाव्यत( वन )रसव्यवसाया 'नागवल्लिदलविभ्रमतोऽन्या ।
कापि केलिकमलं 'निजवक्त्रस्पर्द्धयेव "कवलीकुरुते स्म ॥१६६॥ (१) कुमारावलोकने राग एव व्यापारो यस्याः । (२) ताम्बूलवल्लीपत्रबुद्ध्या । (३)
क्रीडापद्मम् । (४) वदनेन समं स्पर्धा करोतीति हेतुः । (५) खादति स्म ॥१६६॥ हील० तद्विलोकनव्यापारा या कापि बीटकभ्रान्तेः क्रीडाकजं खादति स्म । उत्प्रेक्ष्यते । स्वमुखेन सहेर्प्यया
॥१६७।। हीसुं०. काचन 'व्यधित 'काञ्चनकाञ्ची कण्ठपीठलुठितां रभसेन ।
'इन्दुजां मिलितुमब्जपिशङ्गां यन्मुखाङ्गपितृसोममिवैताम् ॥१६७॥ (१) चकार । (२) स्वर्णमेखलाम् । (३) गलकन्दलस्थायिनीम् । (४) औत्सुक्येन । (५) रेवानाम्नी नदीम् । (६) कमलपरागपीतीभूताम् । (७) कुमारमुखमेवकायो यस्य तादृशं
पितरं चन्द्रम् । (८) आगताम् ॥१६७॥ हील० काचन सुवर्णमेखलां कण्ठे क्षिप्तां चकार । उत्प्रेक्ष्यते । यस्य मुखमेवाङ्गं यस्य तादृशं पितरं चन्द्रं
मिलितुमागतां, अब्जैरर्थात्परागैः पीतां रेवामिव ॥१६८।। हीसुं० कापि 'मौक्तिकलतां 'स्वकटीरे विभ्रमादधृत 'सारसनस्य ।
____ वेश्मनीव रचितां रतिभर्तुः “कुन्दकुड्मलितवन्दनमालाम् ॥१६८॥ 1. नमिती० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org