SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ४. पञ्चमः सर्गः ॥ १८१ कुसुमवृन्दम् । (६) कुमारपराभूतेन (७) स्त्रीमन्दिरस्थितेन । (८) त्यक्तम् । (९) ज्ञात्वा ॥१५९॥ हील० कापि मस्तकात्पतितं पुष्पदाम मूर्ध्नि न धृतवती । उत्प्रेक्ष्यते । कुमारेण जितेन स्मरेण त्यक्तं शस्त्रमित्यवेत्य ॥१६०॥ हीसुं० 'हंसपादभरितार्द्धम हासीत्केशवर्त्म 'तमवे क्षितुमन्या । "पूर्णरागिणमिह प्रविधातुं "श्यामलाशयम लंभवतात्कः ॥१६०॥ (१) सिन्दुरपूरितार्धम् । (२) त्यजति स्म । (३) सीमन्तम् । (४) कुमारम् । (५) द्रष्टुम् । (६) अतिशायिरागयुक्तम् । (७) मलिनचित्तम् पिशुनम् । (८) समर्थीभवतु ॥१६०॥ हील० हंस। तं द्रष्टुमुत्सुका काचित्सिन्दूरेणार्द्धपूरितं सीमन्तं तत्याज । युक्तोऽयमर्थः मलि[न]मनसं रागरङ्गयुक्तं कर्तुं कः क्षमः ॥१६१।। हीसुं० भाति' मुक्त मलिके रभसेनाप्यान्य यार्द्धकृतचन्दनचित्रम् । "स्पद्धिजित्वरकलां शिशुसोमोऽध्येतुमागत इवैष 'मुखाब्जात् ॥१६१॥ (१) त्यक्तम् । (२) भाले । (३) औत्सुक्येन । (४) अर्द्धमेव निर्मितं चन्दनस्य तिलकम् । (५) स्वशोभाविद्वेषिजयनशीलचातुरीम् । (६) बालचन्द्रः । (७) पठितुम् । (८) कुमारमुखकमलात् ॥१६१।। हील० भाति० । कयाचिन्मस्तके अर्धकृतं चन्दनतिलकं त्यक्तं भाति । उत्प्रेक्ष्यते । स्वविरोधिजैत्र चातुर्यमध्येतुमागतः ॥१६२॥ हीसुं० 'पातुमप्रभु 'कुमारविभूषां स्वं दृशोर्द्वयमवेत्य कयाचित् । "लोचने इव धृते इतरे "स्वश्रोत्रयोः स्मितवतंससरोजे ॥१६२॥ (१) सम्यनिरीक्षितुमसमर्थम् । (२) हीरकुमारशरीरशोभाम् । (३) ज्ञात्वा । (४) अन्ये द्वे नयने धारिते । (५) स्वकर्णयोः । (६) विकचावतंसस्य सरोजे कमले ॥१६२॥ हील० पातु० । कयाचित्स्वकर्णविषये विकसितोत्तंसकमले धृते । उत्प्रेक्ष्यते । कुमारशोभा द्रष्टुमक्षमं स्वं दृग्द्वयं ज्ञात्वान्ये नेत्रे धृते ॥१६३॥ हीसुं० राजत: 'श्रुतिपुटे धृतमेकं कुण्डलं च मुखमुत्सुकितायाः । . ३भास्करामृतकराविव 'पर्वाप्यन्तरेण मिलितौ स्फुटमेतौ ॥१६३।। (१) कर्णे । (२) औत्सुक्यादेकेर देकस्मिन् ) कर्णे एकमेव स्वर्णकुण्डलं क्षिप्तम्, अपरं च मुखं द्वे भातेः । (३) सूर्याचन्द्रमसावेव । (४) अमावास्यां विनापि मिलितौ ॥१६३॥ हील० उत्सुकायाः कस्याश्चित् एकस्मिन्कणे धृतं कुण्डलमन्यन्मुखं एवं द्वे राजतः । उत्प्रेक्ष्यते । अमावास्यां विना मिलितौ एतौ रविचन्द्रौ ॥१६४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy