________________
१७४
'श्री हीरसुन्दर' महाकाव्यम् (१) स्वर्णमणिरचितैः । (२) शुशुभे । (३) कलिकानिकरकलितवपुः । (४)
भूमीमण्डलस्थास्नुः ॥१२६॥ हील. भूषणैरेष कुमारः शुशुभे । उत्प्रेक्ष्यते । भुवि आगतः कल्पवृक्षः ॥१२७॥ हीसुं० दर्पणेष्विव 'गवेषयति स्वं भूषणेषु 'किरणाङ्कुरितेषु ।
"दर्पणार्पणविधाभिर मुष्मिनिष्फलाभिर जनि स्वजनानाम् ॥१२७॥ (१) पश्यति । (२) आत्मानम् । (३) कान्तिप्ररोहवत्सु । ( ४ ) आदर्शदर्शनप्रकारैः । (५)
कुमारे । (६) निःप्रयोजनाभिः । (७) जातम् ॥१२६॥ हील० यथा कश्चिद्दर्पणेषु स्वं पश्यति तद्वदाभरणे आत्मानं पस्य(श्य)ति । अमुष्मिन् कुमारे स्वजनानां
दर्पणार्पणप्रकारैर्निष्प(ष्फ)लैर्जातमित्यर्थः ।।१२८॥ हीसुं० दीप्यते किमधिकं सुषमा' नोऽ'मुष्य वा मुषितमन्मथकान्तेः ।
भूषणानि मृगयन्त इतीव 'स्फाररत्ननयनैरिदम ङ्गम् ॥१२८॥ (१) न:-अस्माकं भूषणानां सातिशायिनी शोभा । (२) कुमारस्य वा । (३)
अपहृतस्मरशोभस्य । (४) पश्यन्तः । (५) दीप्यमानमणिनेत्रैः । (६) कुमारशरीरम् ॥१२८॥ हील० दीप्य० । भूषणानि अस्याङ्गं स्फाररत्नैरेव नेत्रैः पश्यन्तीव । नोऽस्माकं शोभाधिका एतस्य वा इतीव
॥१२९॥ हीसुं० 'तद्विभूषणमणीनिकुरम्बैः 'स्पद्धिभिष्प्र( : प्रतिभटैरिव 'भूत्या ।
प्राप्य 'तन्मृधधरां दधिरे 'स्वज्योतिरङ्कुरसुरेन्द्रधनूंषि ॥१२९॥ (१) कुमाराभरणरत्नवि( नि )करैः । (२) स्पर्द्धा कुर्वद्भिः । (३) वैरिभिः । (४) लक्ष्या।
(५) कुमाररूपसङ्ग्रामभूमीम् । (६) निजकान्तिप्ररोहरूपेन्द्रचापाः ॥१२९॥ हील० अन्योन्यं स्पर्द्धावद्भिराभरणरत्नैः कुमार एव सङ्ग्रामभूमीं प्राप्य स्वज्योतींषि एव सुरेन्द्रचापा धृताः ।
यथा भटैर्धनूंषि धृ(ध्रि)यन्ते ।।१३०॥ हीसुं० भूरुहैविहरेसितैरिव कुञ्जः सौरभैरिव 'सरोरुहपुञ्जः । सान्द्रचन्द्रकिरणैरिव दोषा भूषणैरपुषदेष विभूषाम् ॥१३०॥
_ 'इति कुमारशृङ्गारः । (१) वृक्षैः । (२) स्मितैः । (३) वनम् । (४) परिमलैः । (५) कमलव्रजः । (६)
ज्योत्स्नाभिः । (७) रात्रिः । (८) शोभाम् ॥१३०॥ हील. भूरु० । एषः शोभां बिभर्ति स्म । शेषं सुगमम् ॥१३१।।
1. इति दीक्षासमये हीरकुमारस्य शृङ्गाराभरणादिवर्णनम् हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org