________________
पञ्चमः सर्गः ॥
हीसुं० 'भारसासहितया जितशेषः किं श्रितो वलयमस्य विभाति । 'मोहशूरमसुभिः 'प्रवियुज्यानेन वीरवलयं विधृतं वा ॥ १२२ ॥
( १ ) संयमभारसहनशीलतया । (२) पराभूतशेषनागः । (३) कनककटकं स शेषः । ( ४ ) मोहनामानं वीरम् । (५) व्यापादयित्वा । ( ६ ) वीरवलयं धृतम् ॥१२२॥
भार० । अस्य वलयं विभाति । उत्प्रेक्ष्यते । भारसहनेन जितः शेषः श्रितः वा मोहराजानं प्रायो पृथक्कृत्वा वीरवलयं धृतम् ॥ १२३ ॥
हीसुं० योगिनेव 'वहतात्मनि 'मुद्रामू'म्मिकां च दधताम्बुधिनेव ।
फुल्लपल्लवविलासजुषा तत्पाणिनाध्रियत कापि विभूषा ॥ १२३ ॥
(१) मुद्रिकां योगमुद्रां च साक्षराङ्गुलीयकम् । ( २ ) कल्लोलं च । ( ३ ) विकसितकिसलयशोभाभृता ॥१२३॥
हील०
हील० यथा योगिनात्मनि मुद्रां मुद्रणं उह्यते तद्वत्साक्षरोर्मिकां दधता । यथार्णवेन ऊर्मय एव प्रियन्ते तद्वन्निरक्षरोर्मिकां दधता तत्पाणिनाद्वैता श्रीर्धृता ॥ १२४॥
हीसुं० पाणिना विरुरुचे 'पविरोचिश्चापचक्रविलसत्कटकेन ।
गन्धसिन्धुरतुरङ्गशताङ्गालंकृतेन जगतीपतिनेव ॥ १२४ ॥
(१) वज्रमणिनिर्गतकान्तय एवेन्द्रधनुर्मण्डलं तेन दीप्यमानं वलयम् । "वृता विभूषा मणिरश्मिकार्मुकै " रिति नैषधे । तथा - " विविधरत्नप्रभासंवलितं शक्रधनु" रिति कविप्रसिद्धिः । वज्रकान्तिस्तथा धनुश्चक्राणि शस्त्राणि तेन विलसत्सैन्यं यस्य । ( २ ) गजहयरथाकारविभूषितेन चतुरङ्गसेनाकलितेन । ( ३ ) राज्ञेव ॥ १२४॥
हील० पाणि० । वज्ररत्नकान्त्योत्पन्नधनुर्मण्डलैः शोभमानः कटको यस्य तादृशेन । पुनर्लक्षणीभूतैर्गजतुरगरयैरलङ्कृतेन करेण शोभितम् । उत्प्रेक्ष्यते । राज्ञा इव जज्ञे ॥१२५॥
हीसुं० 'रामणीयकहृतापरचित्तं तत्कलत्रमवलोक्य युवेव ।
जातरूपकलितो "गुणशाली 'शृङ्खलष्कि ( : कि) मकरोत्परिरम्भम् ॥१२५॥
(१) मनोज्ञतयाहृतं अपरेषां मनो येन । ( २ ) कुमारस्य कटिं जायां च । ( ३ ) स्वर्णेन उत्पन्नेन रूपेण च युक्तः । ( ४ ) रज्जव: औदार्यादयश्च । ( ५ ) “सा शृङ्खला पुंस्कटिस्था" । स्वर्णकटिदवरकः । (६) आलिङ्गनम् ॥१२५ ।।
१७३
हील० राम० चारुत्वे [न] हृतं चितं येन तादृशं कलत्रं कटीं स्त्रियं च वीक्ष्य हेमगुणशाली कटिदवरक आलिङ्गनमकरोत् ॥ १२६॥
हीसुं० भूषणैष्क' ( : क ) नकरत्ननिबद्धैर्भूषितो व्यरुचदेष कुमारः । 'मञ्जरीभरकरम्बितकायष्क ( : क ) ल्पसाल इव भूतलशाली ॥ १२६॥
1. दधता० हीमु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org