SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १७२ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० 'व्यालवल्लिदलखण्डनजन्मा शोणिमाधरदले विलास । एतदीयहृदयादनुरागो निः सरन्बहिरिव स्थित एषः ॥ ११७ ॥ हील० (१) नागवल्लीपत्रचर्वणोद्भूतः । (२) रक्तता । ( ३ ) कुमारमनसः ॥११७॥ व्याल० । ताम्बूलशोणिमा अधरपत्रे बभासे । इदं हृदयात्रिः सरन्ाग एव बहिः स्थित एव ॥ ११८ ॥ हीसुं० 'रागसङ्गिरदनच्छदराजत्त त्स्मितं दशति ( न )दीधितिमिश्रम् । 'पल्लवोदरविहारिहिमाम्भोविभ्रमं किमु "जिघृक्षति लक्ष्म्या ॥ ११८ ॥ ( १ ) नागवल्लीदलास्वादनजातरक्तिमाकलिताधरे शोभमानम् । ( २ ) कुमारहसितम् । ( ३ ) दन्तकान्तिमिश्रम् । ( ४ ) प्रवालमध्यविलसत्तुहिना ( न ) जलशोभाम् । (५) ग्रहीतुमिच्छति ॥११८॥ हील० राग०। ताम्बूलरागस्य सङ्गो यस्मिन्तादृशेऽधरे शोभमानं पुनर्दन्तकान्तिमिश्रं तस्य स्मितं प्रवालान्तःस्थानां हिमाम्भसां विलासं किमु ग्रहीतुमिच्छति ॥ ११९॥ हीसुं० रज्यते स्म 'दशनप्रकरेणामुष्य कुण्डल ( लि ) पुरन्दरबाहोः । * रागिणीं सविधगां च रसज्ञां प्रेक्ष्य कैर्न ध्रियते ह्यनुरागः ॥ ११९॥ ( १ ) रक्तीभूय्[ ते ] स्म । (२) दन्तनिकरेण ( ३ ) शेषनागसदृशभुजस्य । ( ४ ) रागयुक्ताम् । (५) पार्श्वस्थायिनीम् । (६) विविधरसेषु चतुराम् ॥ ११९॥ हील० नागेन्द्रवद्दीर्घबाहोः कुमारस्य दन्ता रक्ताः कृताः । तद्युक्तं हि यस्मात् रक्तां नवरसज्ञां पार्श्वे दृष्ट्वा कै रागो न ध्रियते ॥ १२०॥ हीसुं० 'संयमाध्यवसितिप्रथमानप्रावृषेण्यजलवाहघटायाः । बिन्दुवृन्द मुदियाय किमेतत्कण्ठपीठकृतमौक्तिकहारः ॥१२०॥ (१) चारित्रपरिणामनामविस्तरद्वर्षाकालसम्बन्धिमेघमालायाः । ( २ ) जलकणनिकर. । (३) प्रकटीभूता(त) म् ॥१२०॥ हील० संय० । एतत्कण्ठस्थापितहारः । किमुत्प्रेक्ष्यते । चारित्राध्यवसाय एव विस्तृतमेघघटाया बिन्दुवृन्दं प्रकटीभूतम् ॥१२१॥ हीसुं० एतदीयवदनामृतभासा स्पर्द्धयेव सह शीतलभासा । `भूत( नून )तारकततिध्रियते स्मा मुक्तमौक्तिकलताकपटेन ॥१२१॥ ( १ ) कुमारमुखचन्द्रेण सह । ( २ ) नवीनतारमण्डली । ( ३ ) परिधृतमुक्ताहारा मौक्तिकव्याजेन ॥१२१॥ हील० एतन्मुखचन्द्रेण अन्यचन्द्रस्पर्द्धया परिहितमौक्तिकहारमिषात् । किमुत्प्रेक्ष्यते । नवीनतारक श्रेणिर्धृता ॥१२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy