SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः ॥ १७१ (१) खञ्जरीट: । "गंगेटिउ" इति लोकप्रसिद्धस्तथा कमलचकोरास्तत्प्रमुखशत्रून् । (२) कुमारनेत्रनामराजानौ । (३) जित्वा (४) प्राकारयोः । (५) कज्जललेखारूपमर कतमणिनिर्मितयोः ॥११२॥ हील० उत्पलं नीलकमलं पद्मं श्वेतकमलं एतानि जित्वा तस्य नेत्रनृपौ अञ्जनरेखा एव नीलरत्नं तत्कृतयोर्दुर्गयोर्मध्ये सुखेन वसतः स्म ॥*११३॥ हीसुं० भृङ्गसङ्गतवतंससरोजे तस्य कर्णयुगले शुशुभाते । 'विग्रहीतुमनसी नयनाभ्यामागते किमितरेतरवैरात् ॥११३॥ (१) भ्रमरयुक्तावतंसकमले । (२) योद्धकामे । (३) शोभया कृत्वा परस्परविरोधात् ॥११३।। हील० भृङ्गयुक्ते कमले तत्कर्णयोः रेजतुः । उत्प्रेक्ष्यते । नेत्राभ्यां सह योद्धकामे आगते । ११४॥ हीसुं० श्रोत्रपत्रयुगमाश्रितवत्या दिद्युते 'मणिवतंसिकयास्य । ३अचिव वदनान्तरमा न्त्या पिण्डभावमितया स्थितयास्मिन् ॥११४॥ (१) कर्णयुगलम् । (२) रत्नावतंसिकया । (३) “विदर्भसु'भ्रूश्रवणावतंसिके"ति नैषधे । (३) अर्चिः कान्तिवाची स्त्रीक्लीबलिङ्गः ।(४) मुखमध्ये । (५) बाहुल्यात्स्थातुमशक्नुवत्या। (६) पिण्डीभूतया ॥११४॥ हील० श्रोत्रश्रितेन रत्नोत्तंसेन शोभितम् । उत्प्रेक्ष्यते । मुखमध्ये अमान्त्या अत एव पिण्डीभूतया अस्मिन्कर्णे स्थितया कान्त्या ॥११५॥ . हीसुं० 'मन्महे 'सकलशीतला(ल)भासां सार्वभौममिदमाननचन्द्रम् । "कुण्डलच्छलतमीरमणाभ्यामन्यथा कथमुपास्यत एषः ॥११५॥ (१) वितळयामः । (२) समस्तचन्द्राणाम् । (३) चक्रवर्तिनम् । (४) कुण्डल कपटाच्चन्द्राभ्याम् ॥११५॥ हील० मन्म० । वयं अस्य मुखचन्द्रं सकलचन्द्राणां चक्रवर्तिनं मन्महे विचारयामः । एवं चेत्र तर्हि कुण्डलच्छलाच्चन्द्राभ्यामेतन्मुखचन्द्रः कथं सेव्यते ॥११६॥ हीसुं० कुण्डले 'कलयती प्रतिबिम्बे गण्डयोर्वहति हीरकुमारः । रेक्रोधमुख्यचतुरात्मविपक्षान् भेत्तुकाम इव चक्रचतुष्कम् ॥११६॥ (१) सङ्क्रान्ती । (२) कपोलयोः । (३) चतुष्कषायद्वेषिणः । (४) चक्राणामायुध विशेषाणां चतुष्टयम् ॥११६॥ हील० कुण्डले० । द्वे प्रतिमे बिभ्रती । कुण्डले प्रति हीरकुमारो धारयति । उत्प्रेक्ष्यते । क्रोधादीन चतुःकषायान् हन्तुं चक्राणां चतुष्टयं बिभर्ति ॥११७।। 1. पुत्री० हीमु. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy