________________
१६८
'श्री हीरसुन्दर' महाकाव्यम् हीसुं० 'सान्द्रवा( च )न्द्रनिकुरम्बकरम्बीभूतनूत(त्न )धुसृणद्रवचर्चा ।
तत्तनौ विलसति स्म सुमेरौ 'चन्द्रिकाखचितसान्ध्यरुचीव ॥१९॥ (१) स्निग्धं बहुलं वा कर्पूरसम्बन्धिवृन्दं ते न ] व्याप्तं नवीनं कुङ्कमजलविलेपनम् । “चन्द्रो विधौ कर्पूरे स्वर्णे चे''त्यनेकार्थः । (२) चन्द्रज्योत्स्नामिश्रितसन्ध्याभ्रककान्तिः । “रुच्यो __रुचीभिर्जितकाञ्चनाभि''रिति नैषधे ॥१९॥ हील० कर्पूरमिश्रकुङ्कुमद्रवविलेपनं तत्काये शुशुभे । यथा मेरौ चन्द्रिकामिश्रसन्ध्यारागः ॥१००॥ हीसुं० 'सौरभं सुमनसां समुदायोऽध्यापयेद्यदि "महारजतस्य ।
"अङ्गरागललितार्भकमूर्तेस्तल्लभेत तुलनां कलयापि ॥१००।। (१) सुगन्धताम् । (२) पुष्पप्रकर: । (३) पाठयेत् । (४) सुवर्णस्य । (५) विलेपनेन
मनोज्ञकुमारशरीस्य । (६) अंशेन ॥१००॥ हील० सौर० । यदि पुष्पप्रकर: सुवर्णस्य स्वपरिमलं पाठयेत् । दद्यादित्यर्थः । तदा विलेपनेन मनोज्ञाया
बालस्य मूर्तेः अंशेनापि सदृशीभावं सुवर्णं प्राप्नुयात् ।।१०१॥ हीसुं० विश्वजैत्रमिव 'मोहमहीन्द्रं हन्तुमर्भधरणीरमणेन ।
खड्गरत्नमिव केश कलापो धूपधूमपटलीभिर धूपि ॥१०१॥ (१) जगज्जयनशीलम् । (३) मोहराजम् । (३) हीरकुमारेण । ( ४ ) केशपाशः । ( ५ )
उत्क्षिप्यमाना( णा )गरुधूमवृन्दैः । (६) धूपितः ॥१०१॥ हील० कुमरेण केशपाशो धूपितः । उत्प्रेक्ष्यते । मोहनामानं राजानं हन्तुं खड्गरत्नं धूपितम् । राज्ञापि वैरिणं
व्यापादयितुं खड्गरत्नं धूप्यते ॥१०॥ हीसुं० 'स्वं क्षणात्क्षय मवेक्ष्य "सृजद्भिष्पा ( : पा )रलौकिकसुखाय तपांसि ।
धूमपानमिव धूपजधूमव्याजतस्तदलकैः क्रियते स्म ॥१०२॥ (१) आत्मीयम् । (२) स्वल्पकाले विनाशं लोचलक्षणम् । (३) ज्ञात्वा । ( ४ ) कुर्वद्भिः । (५) परलोकसम्बन्धिसुखाय । (६) केशपाशधूपनार्थं निर्मितधूमस्य कपटीधूमपानं क्रियते
॥१०२॥ हील० स्वं-आत्मीयं क्षयं दृष्ट्वा तपः कुर्वद्भिस्तस्य कचैधूपधूममिषात् धूमपानं क्रियते ।।१०३।। हीसुं० 'मानिनीजनमनोनयनस्वं यैरनीयत' हृतेविषयत्वम् ।
पारिपन्थिकभरिव लेभे बन्धनं किमिति तच्चिकुरैस्तैः ॥१०३॥ (१) नागरिकस्त्रीलोकस्य हृदयनेत्ररूपविभवः । (२) अपहृतः । (३) तस्करनिकरैरिव ।
(४) कुमारस्य केशैः ॥१०३॥ हील० मानि० । किमिति कारणात्तत्केशैर्बन्धनं लब्धम् । यथा तस्करा बध्यन्ते । यैः केशैः स्त्रीणां मनांसि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org