SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १६७ पञ्चमः सर्गः ॥ हीसुं० 'आगतेऽह्नि 'सुहृदीव तदुक्ते "शुद्धगोचरनवांशकयुक्ते । संमदाद्विजयसिंहमुखेभ्याः प्रारभन्त चरणक्षणमस्य ॥१४॥ (१) दिवसे । (२) मित्र इव । (३) मौहुर्त्तिककथिते । (४) निर्दोषा ग्रहा गोचरा रेखादानादयः नवांशकास्तैः सहिते । (५) कुमारभगिनीपतिप्रमुखव्यवहारिणः । (६) दीक्षामहोत्सवम् ॥१४॥ हील० तैरुक्ते वासरे आगते । यथा मित्रमागच्छति । पुनः शुद्धे गोचरे रेखादानादौ नवांशके लग्नमध्य गतविशिष्टवेलायां स्वभगिन्या विमलाया भर्ता विजयसिंहनामा स इभ्यस्तत्प्रमुखाश्चा रित्रोत्सवमुपक्रामति स्म ॥९५।। हीसुं० केचिदुच्चमणिपीठनिषन्नं( ण्णं) गन्धबन्धुरपयोभृतकुम्भैः । निर्जरा इव जिनावनिजानि दीक्षणस्य "समयेऽस्नपयंस्तम् ॥१५॥ (१) उन्नते रत्नमयासने स्नानार्थमुपविष्टम् । (२) पुष्पादिभिर्वासितैष्प( : प )यसां घटैः । (३) देवा इव । (४) जिनेन्द्रस्य । (५) दीक्षासमये ॥१५॥ हील० केचि० । केचिज्जना उच्चासनस्थं तं दीक्षासमये स्नपयन्ति स्म । यथा जिनं सुराः स्नपयन्ति ॥९६।। हीसुं० 'साम्प्रतं कथममुष्य जडेनाश्लेषणं "विबुधकैरवबन्धोः । 'कोऽप्यरुक्षयदितीव तदीयं वाससातिमृदुलेन शरीरम् ॥१६॥ (१) युक्तम् । (२) कुमारस्य । (३) डलयोरैक्याज्जलेन-पानीयेन अथ च मूर्खेण । (४) पण्डितपुरंदरस्य । “पण्डितो हि मूर्खसङ्गं न कुर्या''दिति ख्यातिः । (५) निर्नारयामास । (६) सुकुमारवस्त्रेण । (७) कुमारकायम् ॥१६॥ हील० साम्प्र० । कोऽपि तस्य कायं कोमलांशुकेन, इति कारणात् निर्नीरयामास । इतीति किम ? इदानीं पण्डितचन्द्रस्यास्य डलयोरैक्यात् जलेन मूर्खेण सङ्गः कः ॥९७|| हीसुं० 'काञ्चनप्रतिमयेव नितान्तोत्तेजना दनुपमप्रभयास्य । 'मा नान्मृदुलगन्धदुकूलैर्निर्मलेन वपुषा पुपुषे श्रीः ॥१७॥ (१) सुवर्णमूर्त्या । (२) अतिशयेन निर्मलीकरणात् । (३) असाधारणकान्त्या । (४) निर्नीरीकरणात् । (५) सुकुमालसुरभिवसनैः । (६) शोभा ॥१७॥ हील० काञ्च० । निरन्तरं निर्मलीकृतकाञ्चनप्रतिमानुरुपेन(ण) निजवपुषा शोभा पुष्टा कृता ॥९८॥ हीसुं० 'तत्कलाकुशलमानववर्गस्तं प्रसाधयितुमारभते स्म । स्वस्तरूनिव निपातयितुं ५श्रीगज़पर्वतशिखामधिरूढान् ॥९८।। (१) प्रसाधव( ? )नं मण्डनं तस्य कलायां विज्ञाने चतुरो जनः । (२) मण्डयितुम् भूषयितुम् । (३) कल्पवृक्षान् । ( ४ ) अधःक्षेप्तुम् । (५) स्वशोभाभिमानगिरिशिखराध्याश्रितान् ॥१८॥ हील० प्रसाधनपण्डितस्तं मण्डयितुं उपक्रामति स्म । उत्प्रेक्ष्यते । गर्वाद्रेः स्वस्तरून् पातयितुम् ।।९९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy