SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १६६ 'श्री हीरसुन्दर' महाकाव्यम् हीरकुमारः । (४) व्यापारकर्ता । (५) बहुविधक्रियाणकेभ्यः ॥८९॥ हील० स्वानुजा० । स्वस्य अनुजो लघुभ्राता श्रीपालनामा स आदौ येषां तादृशा ये स्वजनास्तेभ्यः आदेशं आददे-गृहीतवान् । यथा व्यापारी वस्तुगणेभ्योऽधिकं अधिकं फलं गृह्णाति ॥९०। हीसुं० भूचरानिव विधेरनुवादान्सोपवीतकृतवेदनिनादान् । राजहंसगकमण्डलुपाणीनाजुहाव गणकान्स सुवाणीन् ॥१०॥ (१) भूमीसञ्चारिणः । (२) अनुवदन्तीत्यनुवादा: स्वरुपाणि । (३) यज्ञोपवीतयुक्तान्कृतवेदोच्चारांश्च । (४) राजहंसगमनान् कमण्डलुहस्तान् ।(५) आकारयामास । (६) ज्योतिर्विदः ॥९०॥ हील० भूच० । यज्ञोपवीतयुक्तान्, कृतवेदोच्चारान्, पुना राजहंसगमनान्, पुनः कमण्डलुकरान्, सुवाणीन्, दैवज्ञान् स कुमार आकारयति स्म । उत्प्रेक्ष्यते । भुवि प्राप्तान् ब्रह्मानुकारान् ॥९१॥ हीसुं० आत्मकामितमुखानिव मूर्त्तान् पुष्पपल्लवफलाक्षतपुञ्जान् । तत्पुरोऽयमुपहृत्य "सगोत्रैः पृच्छति स्म चरणस्य मुहूर्तम् ॥११॥ (१) स्वस्य वाञ्छितस्य प्रारम्भान् । (२) ज्योतिषिकानामग्रे । (३) ढोकयित्वा । (४) गोत्रवृद्धैस्सार्द्धम् ॥११॥ हील० आत्मका० । तेषां पुरः पुष्पानि(णि), किशलयानि, फलानि, तण्डुलाश्च, तेषां व्रजान् उपहत्य -ढोकयित्वा । उत्प्रेक्ष्यते । स्ववाञ्छितप्रारम्भान् मूर्त्तिमत: ढौकयित्वा स्वजनैः समं स कुमास्चारित्रमुहूर्त पृच्छति स्म ॥१२॥ हीसुं० 'पूर्वनिर्मितपरस्परतनिश्चितोच्चपदसंपददः । तैरथोच्यत महोदयसद्मद्वारवव्रतदिनं पृथुकेन्दोः ॥१२॥ (१) प्रथमं कृतोऽन्योन्यं विचारो यैः । ( २ ) निर्धारितोऽस्य हीरकुमारस्य उच्चैरतिशायिगणधरादिपदस्य लक्ष्म्या उत्तरफलं यैः । (३) मोक्षमन्दिरस्य द्वारम् । (४) दीक्षाग्रहणदिवसम् ॥९२॥ हील० पूर्व० । कृतविचारैः पुनर्निश्चितः उच्चपदस्य सम्पदो लक्ष्म्या उदर्कस्तद्भवं फलं यैस्तादृशैस्तैः कुमारस्य दीक्षादिनं उक्तम् । उत्प्रेक्ष्यते । मुक्तिद्वारम् ॥९३।। हीसुं० स्वर्णरुप्यमणिमौक्तिकदानैरीश्वरानिव विधाय विधिज्ञः । निश्चितव्रतमुहूर्त्तदिनस्तान्वर्णिनः स विससर्ज कुमारः ॥१३॥ (१) व्यवहारिण: अतिदानैः । (२) महेभ्यान् । (३) निर्धारितो दीक्षायाः सम्यग्दिवसः । (४) ब्राह्मणान् ॥१३॥ हील० स्वर्णादीन् दत्वा, इभ्यान् कृत्वा, निश्चितदीक्षादेशदिनः स तान् दैवज्ञान् यथागतं प्रेषीत् ॥९४|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy