SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १६५ पञ्चमः सर्गः ॥ हीसुं० 'एतदा लपितमात्मभगिन्याः श्रोत्रपत्रपुटकेन निपीयः । सातमा प "मृ'दुतैत्तिरपिच्छस्पर्शजातमिव हीरकुमारः ॥८६॥ (१) पूर्वोक्तम् । (२) भाषितम् । (३) सुखम् । (४) लेभे । (५) तित्तिरपक्षिसम्बन्धिपिच्छस्य मृदुलेन स्पर्शेन कर्णेऽतीव सुखं जायते । “2अन्तस्तैत्तिरपक्षिपत्रमथवा मन्दं मृदु भ्राम्यति" ॥८६॥ हील० भगिनीवाक्यं श्रुत्वा सुखं प्राप । यथा श्रवणयोर्मध्ये सुकुमालतित्तिरपक्षिपिच्छादिस्पर्शात्सातं भवति ।।८६।। हीसुं० रोमहर्षणमिषात्तदनुज्ञोद्वेलहर्षजलधौ शिशुकाये । "उत्स्व( च्छ्व )सन्ति किमु किञ्चन लोलद्वालशालिशफराष्प( : प )रितोऽमी ॥८७॥ (१) रोमाञ्चव्याजात् । ( २ ) भगिन्या आदेशरूपोत्कण्ठप्राप्तप्रमोदसमुद्रो यत्र । (३) हीरकुमार शरीरे । (४) किञ्चिच्चपला लघवः शोभमानाः उच्छलन्ति । हील० रोम० । तस्या आदेशदानाद्वेलामतिक्रम्य प्रसरति हर्षसागररूपे बालकाये रोमोगममिषाच्चञ्चलाः सूक्ष्माः लघवः अमी मीनाः ॥८७|| हीसुं० एतया ध्वनिनिरस्तविपञ्च्या २भूतलोपगतयेव घृताच्या । त्वं गृहाण च "सगोत्रजनेभ्यः "शासनं पुनरिदं जगदे सः ॥८८॥ (१) वाणीविजितवीणया । (२) भूमण्डलं आगतया । (३) घृताचीनामाप्सरसा । (४) .. स्वस्वजनेभ्यः । (५) दीक्षादेशम् ॥८८॥ हील० वीणास्वरया पुनघृताचीसदृशया एतत्कथितम् हे वत्स ! त्वं स्वजनवर्गेभ्यः सकाशात् आदेशमादत्स्व ॥८८॥ हील०→ भारती श्रुतियुगाञ्जलिना तां स्वस्वसुर्मधुसखीं विनिपीय । शैक्षवन्निजगुरोहितशिक्षा स स्म भूत्प्रमदमेदुरिताङ्ग : ॥८९।। तां वाचं श्रवणयुगेन पीत्वा हर्षपुष्टः स समजनि । यथा प्राथमकल्पिकः निजगुरोरैहिकामुष्मिकसाधनकारिणी शिक्षा सादरं श्रुत्वा हृष्टो भवति । किंभूतां भारतीम् ?। मधुन: -क्षौद्रस्य संखीं-वयसी मधुमृष्टाम् ॥८९।। हीसुं० 'स्वानुजादिनिखिलस्वजनेभ्यः शासनं व्रतविधेः पृथुकोऽपि । आददे पुनरसौ "व्यवहारी लाभव द्विविधवस्तुगणेभ्यः ॥८९॥ (१) निजलघुभ्राता श्रीपालनामा तत्प्रमुखसमस्तगोत्रिवर्गात् । (२) दीक्षादेशम् । (३) 1. दुतित्तिर० हीमु० । 2. अन्तस्तित्ति० हीमु० ।। 3. स पुनरेतदवादि हीमु० । -><– एतदन्तर्गतः पाठो हीसुंप्रती नास्ति। 4. इति भगिन्या दीक्षादेशानन्तरं तद्वचसैव स्वभ्रातृस्वजनवर्गादेशादानम् हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy