________________
१६४
'श्री हीरसुन्दर' महाकाव्यम्
हील० हे भ्रातः ! सुकृतरहितानां मीनसद्दशां माद्दशां संसारसरित्पतिमध्ये संयमश्चारित्रं दुर्गाह्यः । यथा
स्तोकबलानां राज्ञां कोट्टः दुर्ग्राह्यः स्यात् ॥८१।। हीसुं० 'सन्ततोपचितकर्मगणस्या नादिधाभवपरंपरयास्ते । ___ ३क्रीतभृत्य इव भर्तृजनस्या यत्तधीरिह सुधीरपि बन्धो ॥८२॥
(१) निरन्त[ र]पुष्टिकृतकर्मव्रजस्य । (२) सुरनरनारकतिर्यग्रूपानेकप्रकारया संसारसंतत्योपार्जितकर्मव्रजस्य । “अनादिधाविश्वपरंपराया'"मिति नैषधे । (३) मूल्यगृहीत सेवक
इव । (४) स्वामिनः । (५) वशः । (६) पण्डितोऽपि ॥८२॥ हील० सन्त० । निरन्तरं निबिडा जायमानस्य कर्मसमूहस्य भव श्रेण्या आदिर्नास्ति । यद्यस्माद्बुद्धिमानपि
कर्मायत्तबुद्धिर्भवति । यथा द्रव्यमूल्यगृहीतो डिंगरः स्वस्वामिन आयत्तधीर्भवति । हे बन्धो !
इदमवसेयम् ॥८२॥ हीसुं० 'कर्मसंततितिरोहितभावश्चेष्टतेऽत्र 'निरवग्रहचेष्टः । __ लोक एष निखिलोऽपि पिशाचावेशिताशय इव व्रतकाङ्क्षिन् ॥८३॥
(१) कर्मश्रेण्या आवृतः सम्यग्ज्ञानरूपो जीवस्य भावो यस्य । (२) स्वेच्छया क्रीडति ।
(३) प्रेताधिष्ठितमनः ॥८३॥ हील० हे दीक्षाभिलाषुक ! एषः समस्तोऽपि लोकः कर्मसन्तत्या आवृतो भावः -सम्यक्ज्ञानं यस्य । अत
एव पिशाचगृहीतचित्तजन इव स्वतन्त्रं हास्यविनोदादिकरणे न चेष्टते विलसति ॥८३।। हीसुं० संसृतौ सुखमशेष ममुष्यां बान्धवामृतमिवानुभवन्ति ।
हीनसङ्गममिवा रमणीयं जानते ननु जनाष्प ( : प)रिणामे ॥८४॥ (१) संसारे । (२) समस्तम् । (३) अस्यां संसृतौ । (४) नीचैष्पा : प )रिचयम् । (५)
विरसम् । (६) वदन्ति । (७) प्रान्ते ॥८४॥ हील० संसृते० । हे बान्धव ! अस्य संसारस्य सुखं जना अमृतमिवानुभवन्ति । परं परिणामे -अन्ते
नीचसङ्गम इव विरसं नैव विदन्ति ।।★८४|| हीसुं० संसृतेर्म'तिमतां वर तस्यास्त्वं पृथग्भवितुमिच्छसि वत्स !।
पुण्डरीकमिव पल्वलपङ्कात्तत्स गर्भ ! भुवि धन्यतमस्त्वम् ॥८५॥
(१) बुद्धिभाजाम् । (२) श्रेष्ठः । ( ३) कमलम् । ( ४ ) सर:कर्दमात् । (५) भ्रातः ! ।।८५।। हील० संसृ० । हे मतिमतां वर ! हे वत्स ! तस्याः संसृतेस्त्वं त्यक्तुं वाञ्छति । यथा सर:कर्दमात् कमलं
भिन्नं भवति । हे सहज ! त्वं धन्यतमोऽसि ॥८५।। 1. सृतेः हीभुल । 2. ०मुष्या० हीमु० । 3. दीक्षानुज्ञानन्तरं धर्मकारकत्वेन भगिनीस्तुतिः हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org