SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः ॥ १६३ आहतीति रूपद्वयम् । “उडुपरिषदः किं नार्हन्ती निशः किमनौचिती''ति नैषधे । (२) दीक्षाग्रहणे। (३) बालावस्था । (४) सुभटस्य । (५) सङ्ग्रामे । (६) असामर्थ्य । (७) वर्षाणि कतिचित् ॥७७॥ हील० हे वत्स ! तव व्रतग्रहणे न आर्हती-न योग्यता । यतस्त्वं शिशुः । यथा भटस्यापटुतायां सत्यां सङ्ग्रामे नार्हती, तेन कारणेन कियद्वर्षाणि तिष्ठ ।।७७।। हीसुं० शैशवे। मदनमोहमहेभान् सिंहशाव इव "हिंसितुमी शः । तत्समादिश ममा स्य "निदेशं 2'तामिदं तदनु सोऽपि जगाद ॥७८॥ (१) बाल्येऽपि । (२) स्मरमोहादिहस्तिनः । (३) केसरिकिशोरक इव । (४) हन्तुम् । (५) समर्थः । (६) देहि । (७) व्रतस्य । (८) आदेशम् । (९) भगिनीम् ॥७८॥ हील० शैशवे० । हे जामे ! अहं शैशवेऽपि मदमोहहस्तीन् निहन्तुं केसरीव समर्थोऽस्मि । तस्मादाज्ञां देश(हि) । तदनु स बभाषे ।।*७८॥ । हीसु० तस्य वीचिभिरिवामरसिन्धोरुक्तियुक्तिभिरितोऽप्यपराभिः । ओमिति प्रवदति स्म कथञ्चित्सापि "बाष्पभरगद्गदवाग्भिः ॥७९॥ (१) गङ्गाकल्लोलैरिव । (२) अस्या अपि । (३) अन्याभिः । (४) निर्गच्छन्नयनाश्रुभिर्गद्ग दाभिरस्पष्टाभिर्वाणीभिः ॥७९॥ हील० गङ्गाया रङ्गत्तरङ्गैरिव तस्य वचनैः पूर्वोक्तादप्यपरैः सा दुःखाश्रुभरेण गद्गदितस्वरैः ओमिति- एवमस्त्विति वदति स्मादेशं ददौ ॥७९॥ हीसुं० 'पूर्वमेव नियमस्थितिकालात्सा गलद्वहुलग्जलपुरैः । भ्रातरं स्वयमिव स्नपयन्ती दं पुनर्गदितुमारभते स्म ॥८॥ (१) प्रथमेव । (२) दीक्षाग्रहणावसरात् । (३) निः सरदस्वल्पलोचननीरपूरैः । (४) आत्मनेव हीरकुमारम् । (५) वक्ष्यमाणम् । (६) भाषितुम् ॥१०॥ हील० पूर्व० । दीक्षाग्रहणकालात्पूर्वमेव सा जामिर्गलदश्रुपूरैः सहोदरं स्नपयन्ती सती इदं कथयति स्म ।।८०॥ हीसुं० 'यादसां भवधुनीधवमध्ये 'मादृशा मतिदुराकलनीयः । संयम: 'सुकृतविप्रयुतानां भ्रातर ल्पतरसामिव दुर्गः ॥८१॥ (१) नक्रादिजलचरजन्तुसदृशानाम् । (२) संसार समुद्रमध्ये । (३) अस्मत्सदृशानाम् । (४) दुःखेनादरणीयः । (५) निष्पुण्यानाम् । (६) स्तोकबलानाम् । (७) कोट्टः ॥८१॥ 1. वेऽपि मदमोहः हीमु० । 2. तायिनं हील० । 3. विमलां प्रति कुमारस्यापि तृतीयवारं प्रतिवाक्यम् हील० । 4. इति विमलाया दीक्षादेशादानम् हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy