________________
१६२
'श्री हीरसुन्दर' महाकाव्यम् (४) इहलोके । (५) तपःक्रियाहलेन क्षेडितं त्रिसतीकृतं सत् । (६) यद्ददाति सुखेन
धान्यादि मोक्षफलं च । सस्यं धान्यफलयोरिति ॥७३॥ हील० यथा जैमनीया देवतासम्बन्धिशरीरे न कृतोद्यमास्तथा यतयो गात्रे ममत्वरहिताः । पुनः क्षेत्रं-शरीरं
तपोहलक्षेडितं मोक्षफलं दत्ते ॥*७३॥ हीसुं० इन्द्रियाण्यनिशमुत्पथगानि 'शूकलानिव वहन्श मरश्मीन् ।
यो नियन्त्रयति जन्तुर विन्धं प्राप्य निर्वृतिपुरी स सुखी स्यात् ७४॥ (१) उन्मार्ग प्रचलन्ति इन्द्रियाणि । (२) दुर्विनीताश्वान् । (३) समतापरिण[ ति ]कशाः ।
(४) स्वायत्तान् वशान्वा कुरुते । (५) निरन्तरायम् । (६) मुक्तिनगरीम् ॥७५॥ हील० इन्द्रियाणि शूकलाश्वसदृशानि उपवासकशया योऽनिशं अङ्गति सोऽङ्गी मोक्षपुरीं प्राप्य सुखी स्यात्
॥७५।। हीसुं० 'मानवान्स्वयमसौच्छ लदर्शी च्छाययास्त्यनुसरन्निव कालः ।
आयतौ हितमतष्क ( : क)रणीयं तज्जिनक्रमयुगं शरणीयम् ॥७५।। (१) मनुष्यान् । (२) आत्मना । (३) प्रत्यक्षलक्षः । (४) छिद्रान्वेषी । (५) वपुः प्रतिच्छायिकया । (६) यमः । "छायामिसेण कालो सव्वजियाणं च्छलं गवेसंतो । पासं कहवि न मुंचइ [ता धम्मे उज्जमं कुणह ॥"] इति वचनात् । (७) उत्तरकाले । (८)
कार्यम् । (९) भगवत्पदद्वन्द्वम् । (१०) आश्रयितव्यम् ॥७५॥ . हील० यद्यस्मात् अयं कालः छलान्वेषी सन् छायादम्भान्मनुष्याननुगच्छन्निवास्ति । अतः उत्तरकाले हितं
कर्त्तव्यम् । उत् तद्विख्यातमहत्पदद्वयमा श्रयितव्यम् ॥७५।। हीसुं० 'वाङ्मयैर्जित'सुधामधुदुग्धैर्निर्जयं विदधतीव शुकीनाम् ।
इत्थमुक्तवति हीरकुमारे सा बिभेद वदनाम्बुजमुद्राम् ॥७६॥ (१) वचःप्रपञ्चैः । (२) पराभूतामृतमधुपयोभिः । (३) अमुना प्रकारेण । (४)
मुखकमलमुद्रणं मौनतालक्षणम्, बभाषे इत्यर्थः ॥७६॥ हील० वाग्विभ्रमैः सूत्रकण्ठाङ्गनानां जयन्ती सा हीरकुमारकथनानन्तरं मुखाब्जमुद्रणं बिभेद । बभाषे
इत्यर्थः ॥७६॥ हीसुं० 'नाहती 'व्रतविधौ तव तेनाऽद्यापि यत्स्फुरति शैशवमते ।
"योद्धरा हव इवापटुतायां तेन तिष्ठ कियती: "शरदस्त्वम् ॥७७॥
(१) न योग्यता । अर्हतो भाव आर्हती । अर्हतो नुम्वेति विभाषया नुम् विधानादार्हन्ती 1. 'खेड्यु' इति गूर्जरगिरायाम् । 2. इति हीरकुमारस्य स्वभगिनीं प्रति द्वितीयवारं प्रत्युत्तरवचनानि हील० । 3. विमलायास्तृतीयवारं वाक्यम् हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org