SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः ॥ १६१ हील अङ्ग । साधूनां ग्रीष्मसमये चन्द्रसदृशा गुरुशिक्षा । पुनः कमलकलितसरः सदृशे योगे केलिः । एतेऽर्थाः निदाघे प्रीतिदाः ||६९ || हीसुं० यत्र गीतय इवा' गमघोषास्ता'ण्डवा इव पुनर्भवभावाः । "वारिवाहदिवसाः शमभाजां नित्यमुत्सवमया इव सन्ति ॥ ७० ॥ ( १ ) सिद्धान्तपठनध्वनयः । ( २ ) नृत्यानि । ताण्डवा: पुंक्लीबे । ( ३ ) संसारस्वरूपानि (णि) । ( ४ ) मेघदिनानि |||७०॥ हील ० यत्र समयघोषा एव गीतानि । पुनः ससारस्वरूपाणि नृत्यानि । ताण्डवशब्दः पुंनपुंसके । "पूर्वत्रिदिवताण्डवा" इति लिङ्गानुशासने । अत एव प्रावृड्वासराः साधूनां महामहमयाः सन्ति ॥७०॥ हीसुं० यो विजेतुमिव 'वारिजराजीं पश्यतस्तत इतः क्रमणेन । पल्लवांश्च विभवैरतिदृप्तौ तौ क्रमौ ' कलयतष्कि ( : कि) म सातम् ॥ ७१ ॥ (१) कमलमालाम् । ( २ ) पर्यटनेन । ( ३ ) स्वशोभाभिः । ( ४ ) दर्पाध्मातौ । (५) धारयतः । ( ६ ) दुःखम् ॥७१॥ हील० यौ चरणौ कमल श्रेणीं जेतुं इतस्ततः पर्यटनेन पश्यतः पुनः प्रवालान् नेतुं पश्यतस्तौ सातासातं न गणयतः ॥ ७१ ॥ हीसुं० द्वेषिणामिव गणा: शितिमानं वक्रभावमपि ये कलयन्ति । को "महाभट इवात्महितैषी 'नोच्छिनत्ति 'ननु तानिह केशान् ॥ ७२ ॥ (१) शत्रूणाम् । (२) श्यामताम् । (३) कुटिलताम् । ( ४ ) च । (५) बलिष्ठसुभट इव । (६) आत्मनो हितस्याभिलाषी । ( ७ ) न उच्छेदयति । (८) ननु प्रश्ने । ( ९ ) कुन्तलान् । कुत्सितान् ईशान् - कुभूपानित्यर्थः ॥७२॥ होल ० शत्रव इव द्रोहं कुटिलतां च ये बिभ्रति तान् केशान् को नोच्छेदयति । यथा सुभटः कुत्सितानीशान् शत्रूनुच्छेदयति । ननु इति प्रश्ने । हे जामे ! सम्यगवर्धार्यम् ||७२ || हीसुं० 'जैमनीयमनुजा इव' दैवे विग्रहे न शमिनः कृतयत्नाः । ३ क्षेत्रमत्र हि "तपोविधि' सीरोल्लेखितं दिशति निर्वृतिसस्यम् ॥७३॥ ( १ ) जैमनीयमतभाजो मनुजा इव । (२) देवतासम्बन्धिनि शरीरे न कृतोद्यमास्ते हि दैवं वपुर्न मन्यन्ते । तस्य जैमनिमुनित्वमुदीये विग्रहं मखभुजामसहिष्णु" रिति नैषधे । चारित्रिणोऽपि मेघकुमार इव शरीरे ममत्वपरिणामरहिताः स्युः । ( ३ ) क्षेत्रं शरीरं कृषिभूमिश्च । 1. कुमारोक्तं श्रमणस्वान्तस्वास्थ्यकारि वर्षासमयकाव्यम् होल० । 2. जैमि० हीमु० 1 3. ०सीरक्षेडितं दिश० हीमु० 1 4. "विग्रहं मुखभुजामसहिष्णुस्तस्य जैमिनिमुनित्वमुदीये" हीमुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy