SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १६० 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० 'वक्त्रवारिजधिया समुपेतां 'षट्पदावलिमिवालकमालाम् । रेलुञ्चयिष्यसि कथं "मुखलक्ष्मीन्युञ्छितामृतमयूख "सगर्भ ! ॥६५॥ (१) मुखे कमलबुद्ध्या । (२) भृङ्गश्रेणीम् । (३) उत्पाटयिष्यति । (४) मुखलक्ष्म्या उपरि लुञ्छनीकृतः चन्द्रो यस्य । (५) भ्रातः ! ॥६५॥ हील. वका० । हे मुखशोभाया उपरि न्युञ्छनीकृत्य क्षिप्तोऽमृतमयूखश्चन्द्रो यस्यार्थाद्धात्रा, स तस्य सम्बोधनम् । हे सगर्भवक्त्राब्जे ! आगतामलिपङ्क्तिमिव श्यामां कचछटां कथमुत्पाटयिष्यसि ॥६५।। हीसं० राशिना' सुमनसामिव 'सर्पिस्तर्पितोद्धतधनञ्जयकीला । तत्परीषहततिष्किा : कि)मसह्या विग्रहेण मृदुना तव सह्या ॥६६॥ (१) पुष्पप्रकरण । (२) घृतेन दीपितोत्कटवह्निज्वाला । (३) शरीरेण ॥६६॥ हील० रा० । तव मृदुना येन असह्या क्षुधादिपरीषहाणां श्रेणी केन प्रकारेण सोढव्या । यथा पुष्पाणां प्रकरण सर्पिषा-घृतेनोद्दीपित उद्धत उत्शिखो वा यो वह्निस्तस्य कीलां कथं क्षम्यते ॥६६॥ हीसुं० 'कुन्दकुड्मलजयं सृजतेवाभीश्रुभिः प्रसृमरैर्दशनानाम् । "प्रत्यवादि वदतां विदुरेणानेन जामिरिति नीतिमता सा ॥६७॥ (१) मुचकुन्दकोशानां पराभवम् । (२) कुर्वतेव । (३) विस्तरणशीलैः । (४) दन्तानाम् । (५) प्रतिभाषिता । (६) वक्तृषु चतुरेण । (७) भगिनी ॥६७॥ हील० कुन्द० । मुचकुन्दकलिकानां पराभवं विस्तरणशीलैर्दन्तकिरणैः कुर्वतेव । पुनर्वक्तृणां मध्ये विदग्धेन, पुनर्नययुक्तेन तेन भगिनी प्रत्युत्तरीकृता । प्रत्युत्तरो दत्त इत्यर्थः ॥६७।। हीसुं० श्वर्णिनीव विरतिः कृतसङ्गा ध्यानसन्ततिरसौ हसनीव । शान्ततापवरकष्किा : कि)मु जामे "शर्मणे शमवतां तुहिनत्तौ ॥६८॥ (१) स्त्रीव । (२) अङ्गारशकटी । (३) शमनामापवरकः । ( ४ ) सुखाय । (५) हिमसमये । शीतकाले ॥६८॥ हील० वर्णि० । शीतकाले साधूनां अमी सुखाय भवन्ति । यत्र विरतिः कान्तेवास्ते, ध्यानं शकटीवास्ते, तथा शमपरिणामो गर्भागार इवास्ते । हे जामे ! शीतं सुखदम् ॥६८॥ हीसुं० अङ्गराग इव सद्गुरु शिक्षा श्रीजिनस्य च विधोरिव सेवा । केलिर'ब्जसरसीव च योगे प्रीणयन्ति "शमिनोऽपि निदाघे ॥६९॥ (१) विलेपनम् । (२) गुरुणां शिक्षा । (३) कमलोपलक्षिततटाके । ( ४ ) चारित्रिणः । (५) उष्णकाले ॥१९॥ 1. इति हीरकुमारं प्रति शीतातपाद्यसह्यसूचकविमलावाक्यानि हील० । 2. कुमारोक्तं यतिसातकृत् शीतकाल काव्यम् हील 3. कुमारोक्तं मुनिमनःसुखकृत् ग्रीष्म काव्यम् हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy