SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १५९ पञ्चमः सर्गः ॥ (१) हितकृत्त्वेन । (२) कथयामि । (३) श्रवणगोचरं कुरु। श्रूहीत्यर्थ:( श्रुण्वित्यर्थः)। (४) तुष्टि- पुष्टिकृद्रेषजमिव । (५) हितशिक्षा ॥६०॥ हील० हे वत्स ! हितकृत्त्वेन यदहं कथयामि तत्त्वं श्रृणु । यद्यस्मात्स्वजनानां हितशिक्षारसायनमिव च तुष्टिपुष्टिदा स्यात् ॥६०॥ हीसुं० अङ्गनाङ्गपरिरम्भहसन्तीगर्भगेहनिवहान्प्रविहाय । मर्षयिष्यसि कथं वद शैष्यं भूमिमानिव भटानरिसैन्यम् ॥६॥ (१) कामिन्याः कायेन सहाश्लेषणं, शीतकाले तस्योष्णत्वेन, तथाग्निशकटिका तथा अपवरकास्तान् त्यक्त्वा । (२) सहिष्यसे । (३) शिशिरम् । उपलक्षणत्वात् हेमन्तशिशिरौ, द्वाभ्यां कृत्वा शीतकाल उच्यते । (४) नृप इव । (५) सुभटान्मुक्त्वा । (६) कटकम् ॥६१॥ हील० अङ्ग । हे वत्स ! वधूकायाश्लेषणं, शकटिकां, मध्यगृहाणि मुक्त्वा त्वं हैमन्तं कथं सहिष्यसे । यथा राजा भटान्मुक्त्वा वैरिसैन्यं कथं सहते ॥६१॥ हीसुं० 'चन्द्रचन्दनशिरोगृहशय्यावारवामनयनावनकेलीः । अन्तरेण तरणीरिव "सिन्धुर्णीष्म एष किमु निस्तरणीयः ॥१२॥ (१) चन्द्रशालाशयनीयम्, वारविलासिनीवन क्रीडा । (२) विना । (३) वेडाः । (४) समुद्रः । (५) उष्णकालः । वसन्तग्रीष्मौ द्वावप्युष्णसमयः । (६) अतिक्रमणीयः ॥६२॥ हील० चन्द्रचन्दनादि विना एष ग्रीष्मः कथमतिक्रमणीयः । यथा वेडा विनार्णवः कथं निस्तीर्यते ॥६२॥ हीसुं० क्रीडितुं रतिपतेरिव रे गे)हाः प्रावृषेण्यदिवसाः कथमेते । गीतनृत्ययुवतीजनलीलामुख्यसौख्यविमुखेन विषह्याः ॥६३। (१) कन्दर्पस्य । (२) वर्षाकालसम्बन्धिनो दिनाः । (३) गाननाटकस्त्रीवर्गक्रीडादिमसुखपराङ्मुखेन । (४) सहनीयाः । उपलक्षणान्मेघात्ययेऽपि वासरास्तेष्वपि कदापि मेघानां सद्भावात् वाषिका एव दिनाः ॥१३॥ हील० कामस्य क्रीडनाय गृहाणि तादृशानि दिनानि गीतादिपराङ्मुखेन त्वया कथं सहनीयाः ॥६३।। हीसुं० 'जृम्भमाणजलजद्वितयी वाहिद्वयी प्रदधती "प्रदिमानम् । पक्षोणिचङ्क्रमणदुःखमियं ते मिर्षयिष्यति कथं कथयैतत् ॥६४॥ (१) विकचकमलयुग्मम् । (२) चरणद्वन्द्वम् । (३) धारयन्ती । (४) सुकुमालताम् । (५) पृथ्वीपर्यटनदुःखम् । (६) सहिष्यते ॥६४॥ हील० यथा स्मेरकमलयामलं म्रदिमानं धत्ते तद्वन्मृद्वी पदद्वयी इयं कठिनभूपीठे पर्यटनदुःखं कथं सहिष्यते । हे भ्रात ! स्तत्त्वं कथय ॥६४|| 1. सैष्यं इति हीमु० । स चाशुद्धो भाति । 2. शीतकालकाव्यम् हील० । 3. ग्रीष्मर्तृकाव्यम् हील० । 4. वर्षासमयकाव्यम् हीला Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy