SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १६९ पञ्चमः सर्गः ॥ नेत्राणि तान्येव द्रव्यं अपहरणगोचरतां प्रापितमपहृतमित्यर्थः ॥१०४॥ हीसुं० सूनसङ्गतशिलीमुखलेखासूनसायक धनुः शरराशेः । संश्रयन्श्रियमि'वार्भकमल्लीकुड्मलाकलितकुन्तलहस्तः ॥१०४॥ (१) पुष्पेषु मकरन्दपानार्थं मिलिता या भृङ्गमाला सैव पुष्पबाणस्य-कामस्य कार्मुकबाण गणस्तस्य । (२) कुमारस्य मूर्धि मल्लिकामुकुलमण्डितकेशपाशः ॥१०४॥ हील० सूनेषु पुष्पेषु आगता ये भ्रमरास्तेषां लेखा श्रेणी सैव सूनसायकस्य धनूंषि शरा बाणास्तेषां समूहस्य श्रियं श्रितोऽर्भकस्य मल्लिकाकोशरचितकेशपाशो भाति ॥१०५॥ हीसुं० मूनि तस्य मुकुटेन दिदीपेऽनर्घ्यरत्नपटलीललितेन । बर्हचामरजयं चिकुराणां विभ्रमैरिव विधाय धृतेन ॥१०५॥ (१) बहुमूल्यमणिगणमण्डितेन । (२) मयूरपिच्छरोमगुच्छानां विजयम् ॥१०५॥ हील० तन्मूधि मुकुटेन रेजे । उत्प्रेक्ष्यते । शिखिपिच्छानां चामराणां जयं धृतेन ॥१०६।। हीसुं० 'पट्टिकाऽर्भकविभोष्का : क)नकस्या लीकमण्डलम लंकुरुते स्म । विभ्रमेण 'चिकुराम्बुधराणां पहादिनीव निकटे "विलुठन्ती ॥१०६॥ (१) स्वर्णपट्टिका कश्चित् आभरणविशेषः । "नलस्य भाले मणिवीरपट्टिका" । तथा दमयन्त्या अपि । 'धृतैकया हाटकपट्टिकालिके " इति स्त्रीपुरुषयोरपि भाले पट्टिकाख्यमाभरणविशेष इति नैषधे (२) भालस्थलम् । (३) भूषयति स्म । (४) बुद्धया । (५) केशरूपमेघानाम्। (६) विद्युत् । (६) समीपे । (८) मिलन्ती ॥१०६॥ हील० हेम्नः पट्टिका शिशुस्वामिनः भालस्थलमलङ्करुते । चिहु(कु)रा एव मेघास्तेषां भ्रमेण समीपवर्तिनी विद्युदिव ।।१०७|| हीसुं० 'दिद्युते 'मणिकरम्बितयास्ये शातकुम्भकृतपट्टिकयास्य । स्वैरमात्मन इवा ननलक्ष्या निर्मितेन "वरणेन निवस्तुम् ॥१०७॥ (१) शुशभे । (२) रत्नखचितया । (३) स्वर्णनिर्मितपट्टिकया । (४) वक्त्रश्रिया । (५) प्राकारेण । (६) वासार्थम् ॥१०७॥ हील० दि० । अस्यास्ये कनकघटितया पट्टिकया दिद्युते । उत्प्रेक्ष्यते । मुखलक्ष्म्या स्वेच्छया वसितुं निर्मितेन प्राकारेण ॥१०८।। 1. हीसुं प्रतौ एतच्छ्लोकं लिखित्वा तदनन्तरं तस्य निम्नलिखितं पाठान्तरं तदुत्तरार्धस्य टीका च दृश्यते दीप्यते स्म मणिमण्डितयास्ये हाटकैर्घटितपट्टिकयास्य । *इन्दुपद्ममुकुराधभिभावोद्भूतनूतमहसेव मुखस्य ॥ पाठः पाठान्तरे - चन्द्रकमलदर्पणादीनां विजयकरणोद्भूतनवप्रतापेन अर्थाद्वक्त्रस्य ॥ हीलप्रतौ तु एतच्छ्लोकस्योत्तरार्धस्य पाठान्तरमेवं दृश्यतेइन्दपद्ममकुटाद्यभिभावोद्भुतनूतमहसेव मुखस्य ॥ पाठान्तरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy