________________
पञ्चमः सर्गः ॥
१५७
श्लाध्यते । अहमपि भ्रातृमती, यथेन्दुना श्रीः ॥५०॥ हीसुं० त्वद्वधूमुखसुधांशुसुधायाः पानमुत्सुकतया 'प्रविधित्सू ।
मद्विलोचनचकोरशकुन्तौ चापलं रचयतश्चिरमेतौ ॥५२॥ (१) तव पत्नीवदनचन्द्रामृतस्य । (२) कर्तुमिच्छू । (३) मम नेत्रचकोरपक्षिणौ । (४)
चपलत्वम् । उत्कण्ठामित्यर्थः ॥५१॥ हील० हे सोदर ! त्वद्वधूमुखचन्द्रदर्शनोत्सुकौ मल्लोचनचकोरौ चपलौ वर्तेते ॥५१।। हीसुं० वाङ्मयैर्विरचितैरि दमाद्यैः ३श्रोत्रपत्रपथिकैः स्वभगिन्याः ।
प्रेरितो "निगदति स्म कुमारो 'गर्जितैरिव 'शिखी धनपङ्क्तेः ॥५२॥ (१) वाचां प्रपञ्चैः । "इतीदृशैस्तं विरचय्य वाङ्मयै" रिति नैषधे । (२) इत्यादिभिः । (३) कर्णप्राघुर्णैः । श्रुतैरित्यर्थः । (४) बभाषे । (५) गर्जारवैः । (६) मयूरः । (७) मेघमालायाः
॥५२॥ हील० स्वजामिवचनैः प्रेरितः कुमारो गदति स्म । यथा मेघगर्जितैः प्रणोदितो मयूरो वक्ति ॥५२॥ हीसुं० 'जीवितं 'कुशशिखास्थमिवारम्भष्पां( : पां)शुलेव 'तरला कमलापि ।
"ऐक्षवाग्रमिवयौ वतमेतत्प्रे क्षणक्षण इव स्वजनोऽपि ॥५३॥ (१) जीवितव्यम् । (२) दर्भशिखरस्थितम् । (३) पानीयम् । (४) व्यभिचारिणीव । (५) चपला । (६) लक्ष्मी: (७) इक्षुसम्बन्धिप्रान्तम् । (८) स्त्रीगणः । (९) रामलक्ष्मणादिरूप
दर्शननाटक प्रकार इव ॥५३॥ हील० हे जामे ! जीवितव्यं दभा( )ग्रस्थमम्भ इवास्थायुकम् । पुनर्लक्ष्मीरपि व्यभिचारिणीव चपला ।
युवतीनां समूह इथूणां प्रान्त इव नीरसः । परिजनोऽपि नाटकप्रस्ताव इव क्षणष्टनष्टः स्यात् ।।५३।। हीसुं० यद्गमिष्यति ममार्भकभावोऽलंकरिष्यति तनुं च 'युवश्रीः ।
३वार्धकं पुनरमा त्यमिव स्वं भूषयिष्यति ‘क इत्य वगच्छेत् ॥५४॥ (१) बालभावः । (२) तरुणताश्रीः । (३) वृद्धावस्था । (४) प्रधानम् । (५) कः
पुमान् । (६) इदम् । (७) जानाति ॥५४॥ हील० यद्ग० । हे जामे ! मम शैशवं यास्यति तारुण्यं आगमिष्यति । पुनर्वृद्धावस्था आत्मानं भूषयिष्यति ।
यथा राजा-ऽमात्य-भिषग्-मुनीन् स्थाविरं भूषयति । इदमवस्थात्रयं भावीति कोऽवबुध्येत ॥५४॥ हीसुं० 'जन्तुरेष इह 'जामिकलत्रभ्रातृमातृपितृपुत्रविशेषैः ।
बम्भ्रमीति परमाणुरिवैको नीलिमारुणिमपीतिमरागैः ॥५५॥ 1. इति विमलाया भगिन्याः हीरकुमारं प्रति प्रथमोक्तिः हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org