________________
१५६
'श्री हीरसुन्दर' महाकाव्यम् (४) शरीरसौन्दर्यनिर्जितकन्दर्पशोभः । “चयादृतः किं नरसाधिमभ्रमः" इति नैषधे ॥४६॥ हील० डिम्भ० । डिम्भेन प्रापितं यत्सन्तापनं तद्भजति । तादृश्या भगिन्या गद्गदितस्वरेण साधिम्ना शरीरसौन्दर्येण
हीनीकृता कामस्य श्रीः शोभा येन तादृशः स कथितः ॥४६।। हीसुं० 'सांप्रतं व्यतिकरस्तव कोऽयं वार्द्धकोचितविधेश्चरणस्य ।
'लीढि वत्स "विषयस्य ‘रसालस्येव 'पवित्रमफलस्य रसांस्त्वम् ॥४७॥ (१) अधुना, बाललीलायाम् । (२) समयः -प्रस्तावः । (३) वृद्धावस्थायोग्यक्रियस्य । (४) चारित्रस्य । (५) आस्वादय । 'लिहीक आस्वादने' । (६) हेः प्रयोगः । (७)
शब्दादिरूपस्य । (८) आम्रस्य । (९) परिपक्वफलस्येव ॥४७॥ हील० वृद्धोचितस्य चारित्रस्य का वार्ता ? त्वमिदानी विषयरसानास्वादय । यथा पक्वमाम्रफलमास्वाद्यते
॥४७॥ हीसुं० भाग्यभाजि 'जलजन्मगृहे वागन्तुका तरुणता त्वयि वत्स ।
'कामकेलिवसतौ रतिसख्यां त्वं रमस्व युवतीभिरमुष्याम् ॥४८॥ (१) पुण्यवति । (२) लक्ष्मीः (३) आगमनोत्सुका । (४) यौवनावस्था । (५)
कन्दर्पक्रीडासदने ॥४८॥ हील० यथा लक्ष्मीः पुण्यवति समेति तथा त्वयि तारुण्यमागमिष्यति । पुना रतेः सख्यामस्यां स्मरक्रीडावसतौ
स्त्रीभिः सह त्वं रमस्व ॥४८॥ हीसुं० 'यौवनेऽर्जय यशोगुणलक्ष्मीः ३क्षोणिमानिव "महःक्षितिकोशान् । ___ ५आर्हतं तम(द)नु धर्ममपिट त्वं स्थाविरे स्थिरतया "विदधीथाः ॥४९॥
(१) तारुण्ये । (२) उपार्जय । (३) राजा । (४) प्रतापपृथ्वीभाण्डागारान् । (५)
जिनप्रणीतम् । (६) वृद्धावस्थायाम् । (७) कुर्याः ॥४९॥ हील० यथा राजा प्रतापं कोशमर्जयति तद्वत्वं कीर्त्यादीनर्जय । अनु पश्चाद्धर्म कुर्वीथाः ॥४९॥ हीसुं० 'मौक्तिकेन 'किल सोदर ! सर्वैः श्लाध्यतेऽ[त्र]भवता "पितृवंशः ।
६भ्रातृम त्यहमपि त्वयकास्मि श्रीरिवा मृतकरेण “वरेण ॥५०॥ (१) मुक्ताफलेन । (२) किलेति इवार्थे । (३) भ्रात: !। (४) अत्र जगति त्वया पूज्येन मान्येन वा । अत्रभवत्तत्रवत्शब्दौ पूज्यार्थे निपात्येते । (५) कुंरासाहिकुलम् । (६)
सहोदरसहिता । (७) चन्द्रेण । (८) श्रेष्ठेन ॥५०॥ हील० मौक्तिः । यथा मुक्ताफलेन पिता-वंशो जनैः श्लाध्यते तथा सर्वैः हे सोदर ! त्वया पितुर्वंशः 1. गृहैवा० इति हीमु० । स चाशुद्धो भाति । 2. मयि हीमु० । 3. वत्यः इति हीमु० । स चा शुद्धः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org