________________
पञ्चमः सर्गः ॥
हीसुं० सूरिभर्तुरमृतादपि वाचो दृश्यते जगति कोऽपि विशेषः । ३त्यक्तमन्यवे ( व ) *इदंरसिका यन्मन्युबद्धमनसस्त्व मृताशाः ॥४२॥
( १ ) अनिर्वचनीयः । ( २ ) महदन्तरम् । ( ३ ) उज्झितक्रोधाः । ( ४ ) गुरुवचनसुधारसिकाः । (५) मौलामृतपायिनो देवास्तु यज्ञोत्कण्ठितहृदयास्तद्भोजित्वात् । “स्वाहा स्वधा ऋतु सुधाभुज" इति हैम्याम् ॥४२॥
हील० अमृतादप्यधिको वाग्विशेषः । यत्कारणाद्देववाण्या रसिकास्त्यक्तकोपा जाताः । तत्त्वतस्तु यज्ञोत्कण्ठितहृदयास्तदशनत्वात् ॥४२॥
हीसुं० सांप्रतं भगिनि तेन मुनीन्दो: सन्निधौ ग्रहयितुं व्रतलक्ष्मीम् । ३उत्सुकोऽहमभवं भवभग्नो धारिणेय इव वीरजिनेन्दोः ॥४३॥
( १ ) अधुना । ( २ ) श्रीविजयदानसूरि पार्श्वे । ( ३ ) उत्कण्ठितः । ( ४ ) मेघकुमार इव ॥४३॥ हील० साम्प्रतं सूरिसमीपं दीक्षां आदातुमहमुत्सुकोऽभवम् । यथा मेघकुमारः श्रीमहावीरजिनपार्श्वे व्रतं गृ ( ग्रहीतुमुत्सुको जज्ञे ||४३||
हीसुं० 'सेतुबन्धमिव संसृतिसिन्धोस्तद्व्रताय मम देहि निदेशम् ।
'विघ्नयेन हि 'महोदयलक्ष्मीसम्मुखं निजजनं हितकाङ्क्षी ॥४४॥
१५५
( १ ) पाजविरचनम् । (२) संसारसमुद्रस्य । ( ३ ) आदेशम् । ( ४ ) विघ्नमन्तरायं कुर्यात् । (५) महानुदय ऐश्वर्यप्राप्तिर्मोक्षश्च तल्लक्ष्म्या अभिमुखम् । (६) स्वकीयम् ॥४४॥
हील० सेतु० । संसारार्णवस्य पद्या तुल्यं व्रतनिर्दे (दे) शं मे देहि । हि यस्मान्मुक्तिश्रीसम्मुखीभूतं स्वकीयं जनं हितार्थी जनो न विघ्नयेत् नान्तरायी भवति ॥४४॥
हीसुं० तद्वचो विरचितं सहजेन प्राप्तमात्रमपि कर्णपुटान्तः ।
क्षिप्त' तप्तगुरुपत्रमिवास्या दुःखम' प्रतिममातनुते स्म ॥ ४५ ॥
( १ ) तत्पूर्वोक्तलक्षणम् । (२) वचनम् । (३) कथितम् । ( ४ ) आगतमात्रम् । (५) कर्णयोः । (६) उष्णीकृतत्रपुरिव । (७) असाधारणम् ॥४५॥
० तद्व० । भ्रात्रा रचितं दीक्षादेशमार्गणरूपं वचः कर्णमध्ये गतमात्रमप्यसाधारणं दुःखं कुरुते स्म । यथा क्षिप्तं त्रपु कर्णयोरतिदुःखदं स्यात्, तद्वत् ॥४५॥
हीसुं० 'डिम्भलम्भितविडम्बन भाजा दुःखतष्प' ( : प ) रभृतेव भगिन्या ।
स ेन्यगादि मृदुगद्गदवाचा साधिमाधरितपुष्पधनुः श्रीः ॥४६॥
(१) बालकेन प्रापिता या विडम्बना तां भजतीति । (२) कोकिलया । ( ३ ) भाषितः । 1. इति भगिनीं प्रति दीक्षादेशमार्गणवचनम् । हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org