SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५४ 'श्री हीरसुन्दर' महाकाव्यम् (१) निश्चयं कृतवान् । (२) विनयेन नम्रशरीरः । (३) गुरोरग्रे । (४) हीरकुमारः। (५) आत्मनो दीक्षाग्रहणम् । (६) पार्वत्याः । (७) कृष्णः। अम्बुजनाभः, अम्भोजनाभ इत्यादि प्रयोगाः पाण्डवचरित्रे । (८) "भवानी कृष्णमैनाकस्वसे''ति हैम्याम् ॥३७॥ हील० निश्चि० । विनयनम्रः स शिशुचन्द्रः सूरिपुरः दीक्षां निश्चिनोति स्म । पुनः स कुमारः स्वभगिनीगृहं प्रत्यगात् । यथा कृष्णः पार्वत्या गृहं प्रति गच्छति । भवानी हि कृष्णभगिनी । “भवानी कृष्णमेनाकस्वसे"ति हैम्याम् ॥३७|| हीसुं० इच्छता हृदि 'महोदयलक्ष्मीसङ्गदूतिमिव जैनतपस्याम् । तनिकेतनमुपेत्य बभाषे तेन 'भावयतिना निजजामिः ॥३८॥ (१) मुक्तिश्रियो महाभ्युदयश्रियश्च सङ्गमे दूतिः सन्देशहारिकामिव दूतिरिति । दूतिशब्दश्चम्पू कथायाम् । (२) भावपरिणामे मनसि वा चारित्रमस्यास्तीति । (३) स्वभगिनी ॥३८॥ हील० इच्छता० । मनसि मुक्तिस्त्रीदूतीरूपां जैनदीक्षां वाञ्छतानेन कुमारेण गृहं गत्वा भगिनी भाषिता ||★३८॥ हीसुं० धारिणीसुत इवाद्य सुधर्मस्वामिनं विजयदानमुनीन्द्रम् । ____ वन्दितुं विजयसिंहमहोभ्याम्भोजदृग्गत "इतोऽहमभूवम् ॥३९॥ (१) जम्बूकुमार इव । (२) महावीरजिनपञ्चमगणधरः । (३) हीरकुमारस्य भगिनीपतिः । (४) तव गृहात् ॥३९॥ हील० धारि० । यथा ऋषभव्यवहारिपत्नी धारिणी तत्सुतो जम्बूकुमार: सुधर्मस्वामिनं नन्तुं गतस्तद्वत् हे विजयसिंहव्यवहारिप्रियतमे ! हे जामे ! इतो गृहाद्विजयदानसूरि वन्दितुं गतोऽभूवम् ॥३९॥ । हीसुं० 'कीलनैकललितं कलयन्ती या 'कशेव तुरगस्य भवस्य । देशनाश्रवणगो[ चरभावं लम्भिता ५श्रमणशीतमरीचेः ॥४०॥ (१) ताडने एकाद्वितीयव्यवसायम् । “व्रजते हेलिहयालिकीलना"मिति नैषधे ! (२) चर्मदण्डः । (३) संसारस्य । (४) श्रुता । (५) विजयदानसूरीन्द्रस्य ॥४०॥ हील० कील० । चर्मदण्डसदृशा भवाश्वस्य ताडने देशना श्रुता ॥४०॥ हीसुं० 'उन्नमज्जलधरादिव जामे सूरिराजवदना ददयद्भिः । वाणिवैभवरसैद्धयमेत[ त् ] पूर्यते स्म मम "कर्णकलश्योः ॥४१॥ (१) वर्षोन्मुखीभवन्मेघात् । (२) प्रकटीभवद्भिः । (३) वचोविलाससलिलैः । (४) श्रवणकुण्डलद्वयम् । “अवलम्बितकर्णशष्कुलीकलशीकं रचयन्नवोचते''ति नैषधे ॥४१॥ हील० उन्नमज्जलधरसदृशात्सूरिवदनात् उद्भूतवाग्जलैर्मे कर्णकलशीद्वयं पूरितम् ॥४१॥ 2. भाष्यते स्म भवनं प्रविभूष्यानेन भावय० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy