________________
पञ्चमः सर्गः ॥
१५३ हील० मा कृथाः० । हे कुमार ! यद्येवं तवाशयस्तहि क्वचन प्रतिबन्धं मा कृथाः । वायुरिवाप्रतिबद्धो
भव ॥३२॥ हीसुं० यैरवद्धि( र्द्धि) जिन धर्मसुरद्रुः पूर्वजन्मनि जनैरिह तेषाम् ।
तद्दलानि 'कमलाकमलाक्षी-सार्वभौमपदवीप्रमुखानि ॥३३॥ 'तत्सुमानि 'सुरवैभवलम्भः कीर्त्तयष्पा : प )रिमलोऽप्य दसीयः । "सिद्धिमुग्धमृगदृक्परिरम्भारम्भणानि पुनरस्य फलानि ॥३४॥ युग्मम् ॥ (१) वर्द्धितः । (२) धर्मकल्पवृक्षः । (३) कल्पद्रुमपर्णानि । (४) लक्ष्मी-लक्ष्मीतुल्यवनिताचक्रवर्तिपदवीमुख्यानि ॥३३॥ (१) धर्मकल्पद्रुमपुष्पाणि । (२) देवलोकलक्ष्मीप्राप्तिः । (३) एतत्सम्बन्धी । (४)
मुक्तिकान्तालिङ्गनप्रकाराः-फलानि ॥३४॥ हील. यैर्जिनधर्मकल्पतरुर्वर्द्धितः तेषां जनानां तस्य धर्मकल्पतरोः पत्राणि लक्ष्मी-वधू-चक्रि-पदप्रमुखानि
तत्पुष्पाणि स्वर्गसुखं, परिमलः कीर्त्तयः, पुनरस्य धर्मतरोः फलानि सिद्धिवध्वालिङ्गनारम्भणानि
वर्तन्ते ॥३३-३४॥ हीसुं० धर्म एव मनुजैरिह मन्त्रः सार्वकामिक इवैष निषेव्यः ।
येन वाङ्मनसपारगतं यत्तत्करोति 'करसात्त रसासौ ॥३५॥ (१) मनुष्यैः । (२) सर्वान्कामान्करोति-समस्तानभिलाषान्पूरयतीति सार्वकामिकः । (३) वाङ्मनसयोः पारगतं वन( च )नमनसोर्गोचरातीतं यत्र । वाचो मनसश्च गोचरो न भवतीत्यर्थः ।
(४) करसात्-हस्तप्राप्तम् । (५) वेगेन । (६) धर्मः ॥३५॥ हील० धर्म एव सार्वकामिकमन्त्र इव विबुधैः सेव्यः । येन कारणेनासौ धर्मः वचनमनसोर्गोचरं यद्भवति
तत्कराधीनं करोति ॥३५॥ हीसं० तां निपीय मुनिवासववाचं स्मेरदृग्प्र बुबुधे स कुमारः । ___'कैरवाकर इव स्मितकोशश्चन्द्रिका "कुमुदिनीरमणस्य ॥३६॥
(१) सादरं श्रुत्वा । (२) गुरुदेशनागिरम् । (३) हर्षेण हसितनयनः । (४) प्रतिबोधं
प्राप्तः । (५) कुमुदनिकरः । (६) विकसितः कुड्मलो यस्य । (७) चन्द्रस्य ॥३६॥ हील० तां वाचं निपीय हसितलोचनः स कुमारः प्रबुद्धयते स्म । यथा चन्द्रस्य चन्द्रिकां पीत्वा विकसिताः
कोशा यस्य तादृशः कुमुदप्रकर: विकाशं लभते ॥३६॥ हीसुं० निश्चिकाय विनयानतकायस्तत्पुरः शिशुशशी स्वतपस्याम् ।
६शंभुसुभ्रुव इवाम्बु जनाभः प्रत्यगाच्च भवनं निजजामै:( मेः) ॥३७॥ 1. इति गुरुवाक्यम् हील० । 2. इति विजयदानसूरिपूरो हीरकुमारस्य दीक्षाग्रहणे निश्चयकरणम् हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org