________________
१५२
'श्री हीरसुन्दर' महाकाव्यम् हीसुं० स्वानुजन्मभगिनीकुलवृद्धाना ददे तदनुयुज्य ते( त )पस्याम् ।
पारलम्भनविभुर्भववार्द्धर्यत्तरीव नियमस्थिते( ति )रेषा ॥२८॥ (१) निजलघुभातृजामिगोत्रवृद्धान् । (२) गृह्णा( ह्रा )मि । (३) पृष्ट्वा । (४) दीक्षाम् ।
(५) परतीरप्रापणाय समर्थाः । (६) भवसमुद्रस्य । (७) वेडेव (८) दीक्षा ॥२८॥ हील० स्वानु० । अहं भ्रातृभगिन्यादीन् पृष्ट्वा दीक्षां गृह्णामीति । यतो भवसागरपारप्रापणे नौरिव दीक्षास्ति
॥२८॥ हीसुं० 'सूरिसिन्धुरपुर: स कुमारो 'व्याजहार मनसीति विमृश्य ।
दन्तकान्तिमुचकुन्दसुमैस्त त्पादयोरिव सृजन्नु पहारम् ॥२९॥ (१) गुरोरग्रे । (२) उवाच । (३) दशनदीप्तिकुन्दपुष्पैः । (४) गुरुचरणयोः । (५) पूजां
कुर्वन् ॥२९॥ हील० सूरि० । स कुमार: चित्ते विचार्य सूरिराजपुरो वदति स्म । उत्प्रेक्ष्यते । दन्तानां कान्तय एव
मुचकुन्दपुष्पानि(णि) तैस्तस्य सूरेः पादयोः पूजां कुर्वन्निव ॥२९।। हीसुं० प्राप्य तावककरादिह दीक्षा माहितायतिहितामिव शिक्षाम् ।
सेवितुं चरणतामरसं ते मानसं मुनिप कामयते स्म ॥३०॥
(१) स्थापितमुत्तरकाले हितं यया । (२) पदपद्मम् । (३) मनः । (४) वाञ्छति ॥३०॥ हील०- प्राप्य० । स्थापितमुत्तरकाले हितं यया तादृशीं शिक्षामिव तव कराद्दीक्षां प्राप्य हे मुनिप !
त्वच्चरणाब्जं सेवितुं मे मनो वाञ्छति ।।३०॥ हीसुं०- एवमुक्तवति हीरकुमारे 'सूरिशीतकिरणः स्म' गृणाति ।
मथ्यमानमकराकररावं लज्जयन्निव गभीरविरावैः ॥३१॥ (१) गुरुः । (२) भाषते स्म । (३) हरिणा मन्दरेऽप्यालोड्यमानसमुद्रशब्दम् । (४)
गम्भीरध्वनिभिः ॥३१॥ हील०- एवमु० । हीरकुमारं प्रति सूरीशः कथयति स्म । उत्प्रेक्ष्यते । मन्द्रध्वनिभिर्विलोड्यमानसमुद्रगभीरनिर्घोषं
लज्जयन्निव ॥३१॥ हीसुं०- मा कृथाः क्वचन 'तत्प्रतिबन्धं बान्धवस्वजनमित्रजनेषु ।
गन्धवाह इव भूधरसिन्धुग्रामसीमपुरभूमिधुनीषु ॥३२॥ (१) ममत्वेन कृत्वा संसारे स्थायिभावम् । (२) वायुरिव । (३) गिरिनदीलघुपुरग्रामबहिस्थप्रदेशनगरपृथ्वीनदीषु ॥३२॥
1. इति हीरकुमारस्य संसारासारताविचारणा हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org