________________
१४७
पञ्चमः सर्गः ॥ हीसुं० आत्मनामिव 'वतंसविधित्सात्युत्सुकैविकचकोकनदेन । ___पौर मौलिभिरचुम्ब्यत सूरेः संमदात्पदयुगं "युगबाहोः ॥५॥
(१) स्वेषाम् । (२) अवतंसानां कर्तुमिच्छयाऽतिशयेनोत्कण्ठितैः । (३) स्मेररक्तकमलेन ।
(४) नगरलोकमस्तकैः । (५) धूसरप्रमाणभुजस्य । आजानुबाहुत्वादिदं विशेषणम् ॥५॥ हील० आत्मना० । नगरजनोत्तमाङ्गैः युगपद्बाहूर्यस्य तादृशसूरेश्चरणयुगं अचुम्ब्यत नम्रीभूतमित्यर्थः । उत्प्रेक्ष्यते ।
विकचेन कोकनदेन रक्तोत्पलेन आत्मनां-स्वेषां अवतंसस्य या विधातुमिच्छा-कर्तुमिच्छा तत्राति
शयेनोत्सुकैरुत्कण्ठितैः । 'वष्टि भागुरि'रिति सूत्रेणावाप्योरकारलोपः ॥५॥ हीसुं० आगमं गणधरस्य कुमारो ज्ञातवानथ मिथो 'जनवाग्भिः ।
'कोकपोत इव नक्तविरामे ताम्रचूडवचनैस्त पनस्य ॥६॥ (१) परस्परभाषमाणजनालापैः । (२) चक्रवाकबालकः ।(३) रात्रेरन्ते । (४) कुर्कुटवाक्यैः ।
(५) सूर्यस्य ॥६॥ होल० आग० । अन्योन्यं नागरिकवचनैः सूरेः पत्तने आगमनं ज्ञातवान् । यथा कुर्कुटवचनैनिशात्यये
. चक्रवाकबालकः सूर्योदयं जानाति ॥६॥ हीसुं० 'बालसाल इव 'कोरकभूषामुद्वहन्वपुषि कण्टकलेखाम् ।
"तं मुदा 'नमसितुं स्पृहयन्मोऽध्यास ‘सारथिसनाथरथाङ्कम् ॥७॥ (१) लघुवृक्षस्य । (२) कलिकाशोभाम् । (३) रोमाञ्चराजीम् । (४) विजयदानसूरिम् ।
(५) नमस्कर्तुम् । (६) वाञ्छन् । (७) अधिरोहति स्म । (८) सारथियुक्तं रथमध्यम् ॥७॥ हील० बालवृक्षः मुकुलशोभां धत्ते, तद्वद्वपुषि रोमाञ्चतां वहन् । पुनः सूरिं नन्तुं काङ्क्षन् स कुमारः
सारथियुक्तं रथमधिरोहति स्म ॥७॥ हीसुं० रंहसास्य मनसो विभुवीक्षोत्कण्ठितस्य दधता किमु मूर्तिम् ।
सञ्चरत्पथि रथेन स तेन प्राप्तवानु पमुनीन्द्रनिकेतम् ॥८॥ (१) वेगेन । ( २ ) सूरिदर्शनोत्सुकितस्य । (३) मार्गे चलन् । (४) विजयदानसूरिरुपाश्रय
समीपम् ॥८॥ हील० रथेन सह स गच्छन् उपाश्रयसमीपं गतवान् । उत्प्रेक्ष्यते । मूर्तिमता मनोवेगेन रथेनेत्यत्रोत्प्रेक्षा ॥८॥ हीसुं० 'स्यन्दनान्म णिहिरण्यवरेण्यश्रीजुषः प्रमदमेदुरिताङ्गः ।
"स्वरिंगवर्ग इव पनाकिविमानादुत्ततार भुवि हीरकुमारः ॥९॥ (१) रथात् । ( २ ) रत्नस्वर्णप्रकृष्टशोभाभाजः । (३) प्रीतिपुष्टकायः । ( ४ ) देवव्रजः । (५)
1. इति गुरोः पौरागमनवन्दने हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org