________________
१४८
'श्री हीरसुन्दर' महाकाव्यम् देवानां विशेषणत्वाद्विद्याधरविमानसद्भावेऽपि देवयानादिति ॥९॥ हील० स्यन्द० । रत्नजटितस्यन्दनात्कुमारः सूरिं नन्तुमुत्तरति स्म । यथा देवयानाद्देवव्रजो जिनं नन्तुमुत्तरति
॥९॥ हीसुं० 'सूरिवक्त्रविधुवीक्षणजन्मानन्ददुग्धनिधिफेन इवोद्यन् ।
३चन्द्रिकाच्छुरितरुक्द(ग्द )शनानामानने स्मितमनेन वितेने ॥१०॥ (१) गुरुवदनचन्द्रदर्शनोद्भूतप्रमोदक्षीरसमुद्रस्य फेन इव । (२) प्रकटीभवन् । (३) दन्तानां कान्तिश्चन्द्रिकेत्युच्यते । यथा रघुवंशे- "दशनचन्द्रिकया व्यवभासित" मिति । व्याप्तकान्तिः
"चन्दनच्छुरितं वपुरिति पाण्डव चरित्रे ॥१०॥ हील० सूरि० । दशनकान्त्या व्याप्ता रुक् यस्य तादृशमीषद्धसितं चक्रे । उत्प्रेक्ष्यते । श्रीसूरिमुखचन्द्रा
लोकनेनोत्पद्यमानः क्षीराब्धिफेनः ॥१०॥ हीसुं० 'सूरिराजचरणाम्बुजयुग्मे 'नेमुषो मुखममुष्य बभासे ।
आगतो मिलितुमत्र वसन्ती जामिमा त्मन इव श्रियमिन्दुः ॥११॥ (१) गुरुचरणकमलयामले । (२) प्रणतस्य । (३) कुमारस्य । ( ४ ) गुरुचरण वासिनीम् ।
(५) स्वस्यभगिनीम् । (६) लक्ष्मीम् । द्वयोरपि समुद्रोत्पन्नत्वाभ्रातृभगिन्योर्व्यवहारः ॥११॥ हील० सूरि० । सूरिचरणाम्बुजयुग्मे प्रणतस्यास्य मुखं रेजे । उत्प्रेक्ष्यते । अत्र चरणाब्जे वसन्तीं स्वभगिनीं
श्रियं मिलितुमागतश्चन्द्रः ॥११॥ हीसुं० भाति 'तत्पदरजोऽस्य ललाटे पूर्वमेव तिलकं कृतमेतत् ।
"त्वय्यथ त्वरितमेव समेष्ये भाषितुं किमिति तत्पदलक्ष्म्या ॥१२॥
१) गुरुचरणरेणुः । (२) कुमारभाले । (३) प्रथममेव तिलकं कृतम् । (४) गुरोः पदस्य चरणस्याथ च पट्टस्य लक्ष्या इति वक्तुम् । इति किम् ?। यदहं त्वयि विषये शीघ्रमेव
समेष्यामीति ॥१२॥ हील० भाति० । सूरिचरणरेणुः तल्ललाटे लग्नः । उत्प्रेक्ष्यते । तत्पट्टलक्ष्म्या इति वक्तुं तिलकं कृतम् । इतीति
किम् ? । अहं त्वयि सद्यः समागमिष्यामि ।।१२।। हीसुं० तस्य लोचनपथे 'पृथुकेन्द्रस्तस्थिवानथ यथासनमेषः ।
सक्रियेव "विधिना परिषत्सा तेन काञ्चिदपुषच्च विभूषाम् ॥१३॥ (१) गुरोरग्रे । (२) हीरकुमारः । (३) शोभनानुष्ठानमिव । (४) शास्त्रोक्तप्रकारेण । (५)
कमारेण । (६) अपूर्वां शोभाम् ॥१३॥ हील० तस्य० । सूरेलॊचनमार्गे कुमारेन्द्रो यथास्थानं उपतिष्ठः । तेन कुमारेण सभा शोभां पुष्णाति स्म । 1. इति हीरकुमारागमन-गुरु वन्दने हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org