________________
एँ नमः ॥
अथ पञ्चमः सर्गः ॥ हीसुं० आजगाम विहरन्स धरित्र्यां पत्तने विजयदानमुनीन्द्रः ।
राजहंस इव जनुसुतायाः "प्रोल्लसत्कमलशालिनि नीरे ॥१॥ (१) आगतः । (२) गूर्जरदेशे विहारं कुर्वन् । (३) गङ्गायाः । (४) विकचकमलैः शोभमाने । पक्षे-प्रकर्षेण निरन्तरं वासत्वादुल्लसन्ती हृष्यमाणा कमला लक्ष्मीर्यत्र तथा
शोभमाने ॥१॥ हील. आज० । अधिकलक्ष्मीकलिते पत्तने विजदानसूरिरागच्छति स्म । यथा गङ्गायाः कमलकलिते नीरे
राजहंसः समेति ॥१॥ हीसुं० 'साम्प्रतीनयुगजन्तुपवित्रीकर्तुरर्हत इव व्रतिभर्तुः ।
आगमं श्रवणगोचरयित्वा नागरा हदि ननन्दुरमन्दम् ॥२॥ (१) आधुनिकयुगः कलियुगस्तस्य प्राणिनः पवित्रीकारकस्य । (२) कर्णयोर्गोचरं कृत्वा,
श्रुत्वा । (३) जहषुः । “परिचरणामन्दनन्दन्नखेन्दु" रिति नैषधे ॥ हील० साम्प्र० । श्रीसूरेरागमं श्रवणयोर्गोचरं विधाय पौरा मनसि जहषुः । उत्प्रेक्ष्यते । कलियुगप्राणिनां
पवित्रयितुं तीर्थकरस्येवागमनमिवानन्दकारणम् ॥२॥ हीसुं० व्याहृता मितमधु 'स्पृहयद्भिर्नागरैरुपगतैर्गणधारी ।
दानवारि मधुकृन्निकुरम्बैर्गन्धसिन्धुर इवैष नि(सि )षेवे ॥३॥ (१) वचनाप्रमाणमाद्वी( ध्वी )कम् । (२) वाञ्छद्भिः । (३) मदजलम् । (४) भ्रमरनिकरैः ।
(५) गन्धहस्ती ॥३॥ हील० व्याहः । भाषितवचनमेवामेयं मधु क्षौद्रं काङ्क्षद्भिः । अत एवागतैः नगरलोकैः एष सूरिर्भेजे।
यथा मधुपकलापैः अमितं मदोदकं काङ्क्षद्भिः गन्धेनोपलक्षितो वारणराजः सेव्यते, तद्वत् ।।३।। हीसुं० 'सूरिशक्रपरिषत्कृतभूषैस्तद्वेषणरसादनिमेषैः ।
"वाक्सुधारसपिबैष्णु( : पु )रलोकैर्भूगतैरिव बभे सुरलोकैः ॥४॥ (१) सभामध्ये निर्मितशोभैः । “पर्षत्परिषदा सहे''ति शब्दप्रभेदे । (२) सूरीन्द्रमुखालोकनरसेन ।
(३) निर्निमेषैः । (४) वचनामृतरसपायिभिः ॥४॥ हील० सूरि० । पुरलोकैर्नगरजनैः शुशुभे । किंभूतैः पुरलोकैः ? सूरिशक्रस्याचार्यपुरन्दरस्य विजयदान
सूरेष्प(: प)र्षदि पर्षदार्थं निष्पादिता भूषा यैस्तादृशैः । पुनः किंभूतैः पुरलोकैः ?। तस्य सूरीन्द्रस्य अर्थाद्गुरुमुखस्य यद्दर्शनं तस्य रसान्निमेषरहितैः वचनामृतपिबैः । उत्प्रेक्ष्यते । भूगतैर्देवलोकैः
॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org