________________
१४३
चतुर्थः सर्गः ॥ (६) पूर्वोक्तविशेषण विशिष्टानाम् ॥१४०॥ हील० ये गुणाः कर्णाभरणायमाना अभूवन् । पुनर्ये चन्द्रिका इव जगद्धवलयन्ति स्म । यान्गुणान्स्तोतुं शेष:
सहस्रजिह्वो जातस्तेषां गुणानां निधानं श्रीआनन्दविमलसूरिर्बभूव ॥१४१॥ हीसुं० १अश्रोत्रैः श्रोतुकामैर्भुजगपरिवृद्धैर्य ज्जगद्गीतकीर्ति
"शब्दाधिष्ठानसृष्ट्यै शतदलनिलयो याचितस्तां “चिकीर्षुः । 'न्याय्या नासौ मयातिक्रमितुमिह ११जगत्सर्गभङ्गीव्यवस्था शक्तिं शब्दं गृहीतुं किमिति स कृतवानेव तद्दृष्टिसगर्गे ॥१४१॥ (१) कर्णरहितैः । (२) भगवद्गुणाकर्णनोत्कण्ठितैः । (३) नागेन्द्रैः । (४) श्रीआनन्दविमलसूरीन्द्रस्य भुवनैर्गीयमानां कीर्त्तिम् । (५) कर्णनिर्माणाय । (६) ब्रह्मा । (७) कर्णसृष्टिम् । (८) कर्तुमिच्छुः । (९) योग्या । (१०) उल्लङ्घयितुम् । (११) विनिर्माण
रचनापरिपाटी । (१२) दृक्कर्णाः कृताः ॥१४१॥ हील० अश्रो० । कमलवसतिब्रह्मा अकर्णैर्नागनायकैः श्रोतुं(तु)कामैः यस्य कीर्ति श्रोत्रसृष्ट्यै याचितः सन्
तां कर्णसृष्टिं कर्तुमिच्छुस्तेषां नागेन्द्राणां लोचनानां निर्माणे एव शब्दं गृहीतुं शक्तिं किमिति
कारणादेव कृतवान् । इतीति मम सृष्टिरचना-स्थापना त्यक्तुं न न्याय्या ॥१४२।। हीसुं० भूरेषा किमु 'चन्द्रचन्दनरसैरालिप्यते सर्वतो
'दुग्धाब्धिप्रसरत्तरङ्गितपयष्पूर : पू) रैरिवाप्लाव्यते । ३मोदौक्ति कविली'नतुहिनैः कुन्दैरिवापूर्यते यत्कीर्तिं प्रसृतां विभाव्य विबुधैरित्यन्तरा रेक्यते ॥१४२॥ (१) कर्पूराकलितश्रीखण्डद्वैः । (२) क्षीरसमुद्रस्य विस्तरद्भिः कल्लोलयुक्तैर्भवद्भिः जलप्रवाहैः । (२) चूर्णैः । (४) मौक्तिकेभ्यो जातैः । (५) द्रवीभूतहिमैः । (६)
मुचकुन्दकुसुमैः । (७) विचार्य्यते ॥१४२॥ हील० भूरे० । यस्य श्रीआनन्दविमलसूरेः कीर्ति प्रसृतां दृष्ट्वा कविभिरेवं विचार्यते स्म । इतीति
किम् ?। एषा भूः कर्पूरचन्दनद्रवैर्धवलीक्रियते वा क्षीराब्धेः पानीयैर्मध्यगतेव क्रियते । अथवा
मौक्तिकचूर्णैर्वा हिमैर्वा मुचकुन्दकुसुमैर्वा निर्भर भ्रियते इत्यारेका ॥१४३॥ हीसुं० विजयदानमुमुक्षुपुरन्दरष्पर : प)दममुष्य ततः समभूषयत् ।
'उदयभूमिभृतः शिखरं शरद्विशददीप्तिरिवारम्बरकेतनः ॥१४३॥ (१) उदयाचलस्य शृङ्गम् । ( २ ) मेघात्ययेन विमलकान्तिः । (३) सूर्यः ॥१४३॥
1. इति श्रीआनन्दविमलसरिः ५६ हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org