SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १४२ 'श्री हीरसुन्दर' महाकाव्यम् हील. यः सूरिः कलौ शरणं जातः । यथा सिंहभुजङ्गहस्तिभिल्लैाप्ते पुनर्दुर्लङ्घये गिरिवनकुञ्जे सार्थः पान्थानामाश्रयो भवति ॥*१३७।। हीसुं० गभीरिम्ना( म्णा) पाथोनिधिरिव महिम्नाऽपर मे( म )रु द्विरि श्चेतोजन्मप्रतिभटतया वा गगनजित् । "प्रसारै रश्मीनां सरसिरुहिणीनामिव पतिः पवित्रीचक्रे यो विहतिभिरशेषा अपि दिश: ॥१३७॥ (१) गाम्भीर्येन(ण) । (२) समुद्रः । (३) महत्त्वेन । (४) मेरुः । (५) कन्दर्पस्य शत्रुत्वेन । (६) बुद्धः । (७) किरणविस्तारैः । (८) सूर्यः । (९) विहारैः ॥१३७॥ हील. यः गभीरिम्ना(म्णा) समुद्रः । पुनर्यो महतो भावेनापरो देवगिरिः । यः स्मरदमनेन खजित् बुद्धः । "मार १ लोक २ ख ३ जिद्धर्मराजो विज्ञानमातृक'' इति हैम्याम् । यो विहारैर्दिशः पावनीचक्रे। यथा सूर्यः किरणप्रचारैर्दिशः प्रकाशयति ।।१३८॥ हीसुं० यो दक्षिणावर्त्त इव 'स्रवन्तीपतिप्लवे कम्बुकदम्बकेन । श्वाचंयमानां निवहेन भूमीपीठे "परीतो विजहार सूरिः ॥१३८॥ (१) समुद्रपूरे । (२) शङ्खवजेन । (३) यतीनाम् । (४) परिवृतः ॥१३८॥ हील० यो दक्षिणावर्त्त इव मुनिमण्डलीवृतः भूमण्डले विहरति स्म ॥*१३९।। हीसुं० भागीरथीव 'यब्राह्मी पुनीते भुवनत्रयम् । "परं विशेषष्कोर : को)ऽप्यस्या 'निम्नगा न कदाचन ॥१३९॥ (१) गलेव । (२) यस्य वाणी । (३) पवित्रीकरोति । (४) अन्तरम् । (५) अवद्यगामिनी न ॥१३९॥ हील० भागी० । स्वधुनीव यस्य वाणी त्रिभुवनं पवित्रयति । परमयं विशेषः यद्वाण्या निम्नं नीचैरवा गच्छति तत्त्वं नास्ति । गङ्गा तु नीचगामिनी ॥१४०।। हीसुं० ये 'कर्णाभरणीबभूवुरनिशं २ विश्वत्रयीजन्मिनां सान्द्रोन्निद्रितचन्द्रिका इव शुचीचक्रुस्त्रिलोकीमपि । यान्संस्तोतुमिवाभवद्भु जगराड्जिह्वासहस्रद्वयस्तेिषां सूरिपुरन्दरः स समभूदेको गुणानां निधिः ॥१४०॥ (१) कर्णपूरीभवन्ति स्म । (२) त्रैलोक्यलोका अपि सोत्कण्ठमहर्निशमाकर्णयन्तीत्यर्थः । (३) निबिडप्रकटीभूतत्वं चन्द्रज्योत्स्ना इव । (४) धवलयन्ति स्म । (५) शेषनागः । 1. पृथ्वी० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy