________________
१४०
'श्री हीरसुन्दर' महाकाव्यम् (१) असाधारणाम् । (२) प्रणष्टकुमतिगणे । (३) धर्मिष्ठे । (४) राजनि । (५)
पराभूतसमस्तशत्रौ ॥१३१॥ हील० विभू० । विद्राणाः पलायिता न्यक्षाः कुपाक्षिका यस्मात्तादृशे आनन्दविमलव्रतीन्द्रे तत्पट्टलक्ष्मी:
असाधारणी शोभां दधार । यथा वसन्ते अतिमुक्तकीलतापङ्क्तिरनन्यां श्रियमश्नुते । पुनर्यथा धर्मेण
जयोऽस्यास्तीति तादृशे । पुनर्जितवैरिसमूहे राज्ञि राज्यलक्ष्मीः शोभां विभर्ति ॥१३२।। हीसुं० त्यक्त्वा शेषकुपाक्षिकांश्च कुदृशः किंपाकभूमीरुहा
नरोग्लम्बैरिव 'पारिजातशिखरी यो 'जन्मिभिः शिश्रिये । येनात्मा शिथिलीभवन्मुनिपथादप्युद्धृतः सूरिणा संसाराम्बुनिधेरिवोद्धतकुदृग्यादोव्रजव्याकुलात् ॥१३२॥ (१) समस्तमतानि । (२) विषवृक्षान् । (३) भ्रमरैः । (४) कल्पद्रुविशेषः । “कल्पद्रुमाणामिव पारिजात" इति रघौ । (५) भव्यैः । (६) प्रमादपदवीपरिगतान् । (७) मुनिमार्गात् । (८)
कुमतिमकरनिकराकुलात् ॥१३२॥ हील० त्यक्त्वा० । कुपाक्षिकान् लुम्पाकप्रमुखान् कुदृशः सौगतादीन् विमुच्य यः सूरिः प्राणिभिः श्रितः ।
यथालिभिर्महाकालमहीरुहांस्त्यक्त्वा मन्दार: सेव्यते । पुनर्येन मुनिमार्गाच्छिथिल: स्वजीव उद्धृतः ।
उत्प्रेक्ष्यते । कुमतमीनाकुलात्संसारार्णवात् पारं प्रापितः ॥१३३॥ हीसुं० शुद्ध क्रिया मुद्धरतोऽस्य भाविनी मद्वत्प्रवृद्धिस्तमितीव शिंसितुम् ।
स्वप्नेऽनुयुक्तेरनु कस्यचि ज्जिनध्यातुर्द्वितीयेन्दुरदर्शयन्निजम् ।.१३३॥ (१) आद्रियमाणस्य । (२) चन्द्र इव । (३) कथयितुम् । (४) प्रश्नादनु । (५)
पार्श्वनाथमन्त्रध्यातुः । (६) द्वितीयाचन्द्रः ॥१३३॥ हील० शुद्धां० । कस्यचित्पार्श्वनाथमन्त्राराधकस्य श्राद्धस्यानुयुक्तेः प्रश्नादनु पश्चात्स्वप्ने द्वितीयेन्दुरागतः ।
उत्प्रेक्ष्यते । मदृद्धिवत् तवापि भाविनीति गदितुम् ॥*१३४।। हीसुं० 'जैना_श्रमणाद्यभावभणनाम्भःप्लाव्यमानात्मनां
जज्ञे द्वीप इव व्रतीशितुरिहोद्धारः ३क्रियाया नृणाम् । विद्यासागरनामवाचकवरो यस्याथ "दुर्दग्गणा६न्सेनानीरिव चक्रिणो 'रिपुनपान्सर्वान्स्ववश्यान्व्य धात् ॥१३४॥ (१) जिनप्रतिमासाधूनामभावम् । नास्ति जिनप्रतिमा-साधवश्चेति कथनमेव लुम्पाककटुकमतिपाक्षीय वचनमेव पानीयपूरेणोपद्रूयमाणात्मनाम् । (२) जलमध्यतट इव । (३) क्रियोद्धारः।
(४) भव्यानाम् । (५) कुमतिव्रजान् । (६) सेनापतिरिव । (७) चक्रवर्तिनः । (८) 1. ०द्धां क्रि० हीमु० । 2. ०पान्प्रास्वस्य वश्या० हीमु० । प्रत्यक्स्ववश्या० हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org