SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः ॥ १३९ हील० सूरेः । यथा भरतचक्रिणः प्रथमसुतः पुण्डरीक: वृषभदेवगणभृदभूत् तथा तत्पट्टे रत्नशेखरसूरिः समभवत् । यः बाम्बीद्विजेन बालसरस्वती कथितः ॥१२८।। हीसुं० लक्ष्मीसागरसूरिशीतमहसा लक्ष्मीरवापे ततो दीपेनेव 'गुणोदयं कलयता ज्योतिर्बरहद्भानुतः । गायन्तीः सुरसुन्दरीर्गुणगणान्यस्याष्ट दिग्स( क्स)ङ्गिनीपर्विज्ञाया ष्ट विनिर्ममे किमु विधि: "श्रोतुं "श्रुतीरात्मनः ॥१२८॥ (१) गुणाः शमदमार्जवमाईवादयः वृत्तिश्च तेषामभ्युदयम् । (२) दधता । (३) वह्नः । (४) दिक्षु विदिक्षु च स्थिताः । (५) ज्ञात्वा । (६) अष्टसङ्ख्याकाः । (७) श्रवणाय ।(८) कर्णान् ॥१२८॥ हील० लक्ष्मीसागरसूरिणा तत: शोभाप्ता । यथा दीपेन गुणवताऽग्नेः कान्तिराप्यते । यस्य गुणान् अष्टासु दिक्षु गायन्तीर्देववधूदृष्ट्वा स्रष्टा तान श्रोतुं स्वास्याष्ट कर्णान् करोति स्म ॥१२९॥ हीसुं० सुमतिसाधुरभूदथ तत्पदे 'त्रिजगतीजननेत्रसुधाञ्जनम् । 'समकुचत्रपया हृदि यद्रािं मधुरिमाधरिता किमु गो स्तनी ॥१२९॥ (१) त्रैलोक्यलोकनेत्राह्लादकः । (२) सङ्कचति स्म । (३) लज्जया । (४) सुमति साधुसूरिवचनविलासमाधुर्यधिकृता । (५) द्राक्षा ॥१२९।। हील० सुम० । जगज्जननयनासेचनकत्वादमृताञ्जनं सुमतिसाधुसूरिस्तत्पदेऽभवत् । यस्य वाचां मधुरिम्ना हीनीकृता (द्राक्षा) पुनर्मनसि लज्जया सङ्कोचं प्राप्तवती ॥१३०॥ हीसुं० शीलेन 'जम्बुगणनाथ इवात्र वज्र-स्वामी पर: किमथ वा महिमोदयेन । जज्ञे नवद्वयशतव्रतिसेव्यमानो नाम्नाथ हेमविमलष्प्र( लः प्र )भुरस्य पट्टे ॥१३०॥ (१) ब्रह्मचर्येण । (२) जम्बूस्वामी । (३) माहात्म्याविर्भावेन । (४) अष्टादशशतसाधुश्र (से )व्यक्रमः ॥१३०॥ हील० शीले० । अस्य पट्टेऽष्टादशयतिसेव्यमानः श्रीहेमविमलसूरिरभवत् । यः शीलेन जम्बूस्वामी पुनर्यः महिमोदयेन वज्रस्वामीव जज्ञे ॥१३१।। हीसुं० विभूषाम'द्वैतामकलयदथानन्दविमल'-व्रतीन्द्रे विद्राणाखिलकुदृशि तत्पट्टकमला । वसन्ते वासन्तीततिरिव पुनर्धर्मजय( यि )नि, 'क्षितीन्द्रे राज्यश्रीरिव 'विजित विश्वप्रतिभटे ॥१३१॥ 1. इति लक्ष्मीसागरसूरिः ५३. हील० । 2. इति श्रीसुमतिसाधुसूरिः ५४. हील० । 3. इति श्रीहेमविमलसूरिः ५५. हील। 4. ०ले व्रती० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy