SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १३८ 'श्री हीरसुन्दर' महाकाव्यम् ( १ ) नीलोत्पलं भूवलयं च तस्य प्रतिबोधे विकाशे देश- सर्वविरत्यादिदाने चतुरे । (२) सूर्यस्य । ( ३ ) शरत्कालसम्बन्धिचन्द्रमण्डले । (४) कृता ॥१२३॥ हील० पट्ट० । मुनिसुन्दरसूरौ आगतया पट्टलक्ष्म्या जनानां नेत्रयोः प्रकृष्टा प्रीतिर्विरचिता । यथा सूर्यस्य कान्त्या शरच्चन्द्रमण्डले सम्प्राप्तया जननयनयोः प्रीतिर्विरच्यते । किंभूते मुनिसुन्दरसूरिशक्रे शरदिन्दुबिम्बे च ? कुवलयं, भूवलयं उत्पलं च तस्य बोधिबीजप्रदाने विकाशने च दक्षे ॥ १२४॥ हीसुं० 'योगिनीजनितमार्युपप्लवा येन शान्तिकरसंस्तवादिह । 'वर्षणादिव 'तपर्तुतप्तयो 'नीरवाहनिवहेन 'जघ्निरे ॥ १२४॥ (१) दुष्टयोगिनीनिर्मितमरकोपद्रवः । (२) मुनिसुन्दरसूरिणा । (३) “संतिकरं संतिजिण " मित्यादिस्तवनेन । ( ४ ) वृष्टेः । (५) ग्रीष्मतापाः । ( ६ ) मेघव्रजेन । ( ७ ) हताः ॥१२४॥ हील० योगिनीभिर्दुष्टव्यन्तरीभिः कृतोपद्रवा येन निवारिताः । यथा मेघौघेन ग्रीष्मतस्तापानि हन्यन्ते ॥ १२५ ॥ हीसुं० 'बाल्येऽपि रश्मीनिस ( स ) रसीजबन्धुरिवावधानानि 'वहन्सहस्त्रम् । अष्टोत्तरं "वर्त्तुलिकानिनादशतं स्म वेवेक्ति धियां निधिर्यः ॥ १२५ ॥ (१) बालभावेऽपि । (२) किरणानिव । ( ३ ) रविः । ( ४ ) सहस्त्रावधानधारकः । ( ५ ) अष्टोतरशतवर्त्तुलिकाशब्दानाम् । (६) पृथक् पृथक् वक्ता ॥१२५॥ हील० बाल्ये ० । यथा रविः सहस्रकिरणान्धत्ते तथा बाल्येऽपि यः सहस्रावधानधारी १०८ वर्त्तुलिकास्वरं पृथक्-पृथक् कृत्वा कथयति स्म ॥ १२६॥ हील० हीसुं० 'अलम्भि याम्यां दिशि येन काली सरस्वतीदं बिरुदं बुधेभ्यः । वेरु दिच्यामिव तत्र तेजोऽतिरिच्यते यत्पुनरत्र 'चित्रम् ॥ १२६ ॥ (१) प्राप्तम् । (२) दक्षिणस्याम् । (३) उत्तरस्याम् । ( ४ ) अधिकीभवति । (५) आश्चर्यम् ॥१२६॥ अल० । येन दक्षिणस्यां दिशि 'कालीसरस्वती 'ति बिरुदमाप्तम् । यथा खेरुत्तरस्यां तेजोवृद्धिः तद्वदेतस्य दक्षिणस्यामपि तेजोऽधिकं जातमिति आश्चर्यकारि ॥ १२७॥ हीसुं० सूरेस्ततोऽजायत रत्नशेखरः श्री' पुण्डरीको वृषभध्वजादिव । बाम्बीति नाम्ना द्विजपुङ्गवेन न्यगादि यो बालसरस्वतीति ॥१२७॥ (१) भरतचक्रिप्रथमसुतः । (२) ऋषभदेवात् । (३) स्तम्भतीर्थे बाम्बीनाम्ना द्विजेन । (४) बालसरस्वतीति बिरुदं दत्तम् ॥ १२७॥ 1. इति श्री मुनिसुन्दरसूरिः ५१. हील० । 2. इति श्रीरत्नशेखरसूरिः ५२. हील० 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy