SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः ॥ हीसुं० निजाङ्गनोद्गीतयदीय' कीर्ति शुश्रूषुरक्षिश्रवसामृभुक्षाः । चक्षुस्सहस्त्रे रसिकष्कि( : कि) मा[ था ]त्पट्टे स तस्याऽजनि धर्म्मघोषः ॥ ११२ ॥ ( १ ) स्वकामिनीभिः मिथो धर्मगोष्ठ्यां गीयमानां धर्मघोषसूरिकीर्त्तिम् । (२) श्रोतुमिच्छुः । ( ३ ) नागेन्द्रः । अक्षिणी एव श्रवसी येषां तेषां नागानां इन्द्रः । ( ४ ) द्वे सहस्त्रे नयने ॥११२॥ हील० निजवधूभिर्गीतां यस्य कीर्तिं श्रोतुमिच्छुर्नागेन्द्रो नयनानां [ सहस्र ] द्वयं रसिकः सन्नकरोत् । तत्पट्टे स धर्मघोषसूरिर्जातः ॥११३॥ हीसुं० 'मिथ्यामतोत्सर्पणबद्धकक्षं प्रेक्ष्य क्षितौ जीर्णकपर्द्दिनं यः । प्रबोध्य वाचा जिनराजबिम्बाधिष्ठायकं पूर्वमिव व्यधत्त ॥ ११३॥ (१) वज्रस्वामिमाहात्म्यान्नवीनोत्पन्नकपर्दिना त्याजितशत्रुञ्जयं जीर्णकपर्दिनं भूमौ मिथ्यात्वमुत्सर्पणैकरङ्गं दृष्ट्वा । ( २ ) मधुरगिरा प्रतिबोध्य । ( ३ ) शत्रुञ्जयप्रतिमाधिष्ठायकमिव १३५ ॥११३॥ हील० मिथ्या० । यः पृथिव्यां मिथ्यात्ववृद्धिविधाने सज्जीभूतं गोमुखयक्षं प्रतिबोध्य, यथा पूर्वं अधिष्ठायकोऽभूत्तथैव तत्राप्यकृत ॥११४॥ हीसुं० १ शिष्यार्थनानिर्मितसंस्तवस्यानुभावतो देवपत्तनेऽब्धिः । भूपस्य शुश्रूषुरिवास्य रत्नं तरङ्गहस्तैरुपदीचकार ॥११४॥ (१) कौतुकान्निजशिष्याभ्यर्थनया मन्त्रमयस्तुतिकरणप्रभावतः । (२) देवकपत्तनसमीपसमुद्रेन (ण) रत्नं तरङ्गहस्तोपरिदर्शितम् ॥ ११४॥ हील० शिष्याणामाग्रहेण कृतमन्त्रमयस्तोत्रप्रभावात् देवकपत्तननिकटवर्ती अब्धिः अस्य धर्मघोषसूरे रत्नं तरङ्गरूपहस्तैर्दोकयामास । निर्ग्रन्थत्वेन ग्रहणाभावाद्दर्शयामासेत्यर्थः । यथा सेवाकर्त्तुमिच्छुर्नये राज्ञो रत्नमुपदीकुरुते ॥११५॥ हीसुं० विद्यापुरे योऽ' खिलशाकिनीनामुपद्रवं द्रावयति स्म सूरिः । श्रीहेमचन्द्रो भृगुकच्छसंज्ञे पुरे यथा दुर्द्धरयोगिनीनाम् ॥११५॥ (१) शाकिनीनां उपद्रवं पट्टकादिमण्डनं रजन्यां पट्टिकोत्पाट्टा( ट ) नचत्वरानयनं वटकादिविहारणं इत्याद्युप्रद्रवम् । (२) हन्ति स्म । ( ३ ) यथा भृगुकच्छे स्वनिर्मापितमुनिसुव्रतस्वामिप्रासादे सन्ध्यायां प्रह्लादान्नर्त्तनावसरे चतुः षष्टियोगिनीदोषे जाते विज्ञातं वृत्तेन हेमसूरिणा समेत्य यशोभद्रगणिना हक्कादानोदूखलखण्डनादिना उपद्रवो द्रावितः सज्जितश्चाभट्टमन्त्री ॥ ११५ ॥ हील० विद्यापुरे यः सूरिः पट्टकमण्डनगुरुशयनपट्टिकोत्पाटनादिविद्यात्रीणां श्राविकाणां उपसर्गं निवारितवान् । यथा मसूरिणा निवारितः ॥११६|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy